वाराणस्यां लाल बहादुर शास्त्रीविमानस्थानके 15 जून दिनांके यात्री सेवा दिवसः समाचरिष्यते - निदेशकः
वाराणसी, 14 जूनमासः (हि. स.)। उत्तरप्रदेशस्य वाराणस्यां लालबहादुरशास्त्रीविमानस्थानकस्य निदेशकः पुनीतगुप्तः अवदत् यत् वाराणस्यां विमानस्थानके उत्सवस्य वातावरणं भवितुं गच्छति। श्वः पञ्चदशजूनदिने यात्रिसेवादिवसः आचरितः भविष्यति। अस्य कृते सम्पूर्ण
लाल बहादुर शास्त्री हवाई अड्डा, वाराणसी


वाराणसी, 14 जूनमासः (हि. स.)।

उत्तरप्रदेशस्य वाराणस्यां लालबहादुरशास्त्रीविमानस्थानकस्य निदेशकः पुनीतगुप्तः अवदत् यत् वाराणस्यां विमानस्थानके उत्सवस्य वातावरणं भवितुं गच्छति। श्वः पञ्चदशजूनदिने यात्रिसेवादिवसः आचरितः भविष्यति। अस्य कृते सम्पूर्णा सिद्धता कृता अस्ति। स्वयात्रिभ्यः समर्पितानां विशेषक्रियाकलापानां कार्यक्रमस्य रूपरेखा निर्मिता अस्ति। अस्माकं यात्रिणां स्मितमेव अस्माकं कार्यस्य सफलतां सम्पादयति। अस्य उत्सवस्य झलकानां दर्शनार्थं अस्माकं सहकर्मिषु महान् उत्साहः वर्तते।

निदेशकः पुनीतगुप्तः रविवासरे अवदत् यत् पञ्चदशजूनदिने प्रातःकाले सप्तवादनात् आरभ्य लालबहादुरशास्त्रीविमानस्थानके आयोजिते कार्यक्रमे स्वास्थ्यपरीक्षणशिविरम् रक्तदानशिविरम् विमानस्थानकम् आगच्छतां यात्रिणां वृक्षप्रदानेन तिलकलगनेन च स्वागतं विमाननक्षेत्रस्य महिलाबलस्य स्वच्छताकर्मिणां च सम्मानः सांस्कृतिकनृत्यकार्यक्रमः बालकानां कृते चित्रकलायाः आयोजनम् आत्मचित्रबिन्दोः निर्माणम् इत्यादयः बहवः कार्यक्रमाः भविष्यन्ति।

अक्टूबरमासे विमानप्रदर्शनस्य अधुना एव सिद्धता

वाराणस्याः नमोघाटे विंशतितमे अक्टूबरमासदिनात् सूर्यकिरणजेटनाम्नः नव विमानयानानि आगमिष्यन्ति। पञ्चदिनपर्यन्तम् अभ्यासः भविष्यति। अस्य अवधौ विमानप्रदर्शनम् आयोजितं भविष्यति यस्मिन् प्रधानमन्त्री नरेन्द्रमोदी मुख्यातिथिरूपेण उपस्थितः भवितुम् प्रस्तावितः अस्ति। विमानप्रदर्शनस्य कृते वर्तमानसमये नमोघाटे विमानस्थानके च सिद्धताकार्याणि प्रचलन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani