महिला-टी-२०-विश्वकप-क्रिकेट्-क्रीडायां भारतस्य पाकिस्तान-देशं प्रति विजयाय मातुः गङ्गायाः आरार्तिकी कृता
वाराणसीनगरम्, १४ जूनमासः (हि.स.)। महिला-टी-२०-विश्वकप-क्रिकेट्-क्रीडायां भारत-पाकिस्तान-दलयोः महत्त्वपूर्ण-स्पर्धायाः पूर्वं रविवासरे काश्याः पौराणिक-दशाश्वमेध-घट्टे भारतीय-महिला-क्रिकेट्-दलस्य विजय-कामनया विशेष-प्रार्थना तथा मातुः गङ्गायाः आरार्ति
महिला टी-20 वर्ल्ड कप क्रिकेट में भारत की जीत के लिए मां गंगा की आरती करते युवा


वाराणसीनगरम्, १४ जूनमासः (हि.स.)। महिला-टी-२०-विश्वकप-क्रिकेट्-क्रीडायां भारत-पाकिस्तान-दलयोः महत्त्वपूर्ण-स्पर्धायाः पूर्वं रविवासरे काश्याः पौराणिक-दशाश्वमेध-घट्टे भारतीय-महिला-क्रिकेट्-दलस्य विजय-कामनया विशेष-प्रार्थना तथा मातुः गङ्गायाः आरार्तिकी आयोजिता। गङ्गा-स्वच्छता-विषये जन-जागरण-अभियानं सञ्चालयन्तः ‘नमामि-गङ्गे’ इत्यस्य स्वयंसेवकाः मातुः गङ्गायाः बाबा-विश्वनाथस्य च समीपे भारतीय-दलस्य विजयाय आशीर्वादम् अयाचन्त।

अस्मिन् अवसरे स्वयंसेवकाः भारत-मातुः चित्रं, क्रिकेट्-क्रीडा-सामग्रीम्, दण्डकन्दुकौ तथा राष्ट्रध्वजं धारयन्तः घट्टम् आगतवन्तः। गङ्गातटे शङ्खनादं कृत्वा भारतीय-महिला-दलस्य सफलतायै पाकिस्तान-दलं प्रति विजयाय च प्रार्थना कृता। “भारतमातुः जयः”, “चक्-दे-इण्डिया” तथा “जेष्यति भारतम्” इत्यादिभिः घोषैः घट्ट-परिसरः देशभक्ति-भावेन परिपूर्णः अभवत्।

कार्यक्रमे मातरः, भगिन्यः, यूनः तथा वृद्धाः अपि सहभागीभूत्वा भारतीय-दलस्य कृते सामूहिक-प्रार्थनाम् अकुर्वन्। उपस्थितैः विश्वासः व्यक्तीकृतः यत् भारतीय-महिला-क्रिकेट्-दलं स्वस्य उत्कृष्ट-प्रदर्शनेन विश्व-मञ्चे देशस्य गौरवं वर्धयिष्यति।

अभियाने सहभागी नगर-निगमस्य स्वच्छता-ब्राण्ड-दूतः राजेश-शुक्ल-महोदयः उक्तवान् यत् क्रिकेट्-क्रीडा देशस्य कोटिशः जनानां भावनाभिः सम्बद्धा अस्ति तथा भारतीय-महिला-क्रिकेट्-दलेन स्वस्य उत्कृष्ट-प्रदर्शनेन अन्ताराष्ट्रिय-क्रिकेट्-जगति विशिष्ट: परिचय: प्राप्त: अस्ति। तेन उक्तं यत् इङ्ग्लैण्ड-देशे आयोज्यमानायां स्पर्धायां भारतीय-दलं विजय-पथे अग्रे गच्छेत् इति कामनया मातुः गङ्गायाः बाबा-विश्वनाथस्य च आशीर्वादः प्रार्थितः।

तेन उक्तं यत् देशस्य १४०-कोटि-जनानाम् अपेक्षाः भारतीय-महिला-क्रिकेट्-दलेन सह सम्बद्धाः सन्ति तथा सर्वे विश्वासं कुर्वन्ति यत् दलं स्वस्य प्रदर्शनेन राष्ट्रं गौरवान्वितं करिष्यति।

अस्मिन् कार्यक्रमे सारिका-गुप्ता-महोदया, शङ्कर-द्विवेदी-महोदयः, हनुमान-प्रसाद-महोदयः, कन्हैया-तिवारी-महोदयः इत्यादयः अनेके गणमान्य-जनाः स्वयंसेवकाः च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan