मुख्यमन्त्रिणा भगवत: भोलेनाथस्य हनुमत्-मूर्तीनां च विधिवत् अनावरणं कृतम्
खटीमानगरम्, १४ जूनमासः (हि.स.)। उत्तराखण्ड-राज्यस्य मुख्यमन्त्रिणा पुष्कर-सिंह-धामी-महोदयेन बण्डिया-क्षेत्रे भगवत: भोलेनाथस्य तथा महाबली-हनुमान्-महोदयस्य प्रतिमानाम् विधिवत् अनावरणं कृतम्। अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यत् उत्तराखण्डः देवभूमि
प्रतिमा का अनावरण करते मुख्यमंत्री।


खटीमानगरम्, १४ जूनमासः (हि.स.)। उत्तराखण्ड-राज्यस्य मुख्यमन्त्रिणा पुष्कर-सिंह-धामी-महोदयेन बण्डिया-क्षेत्रे भगवत: भोलेनाथस्य तथा महाबली-हनुमान्-महोदयस्य प्रतिमानाम् विधिवत् अनावरणं कृतम्।

अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यत् उत्तराखण्डः देवभूमिः अस्ति तथा अस्याः संस्कृतिः, परम्परा, धार्मिक-आस्था च अस्माकं परिचयस्य अभिन्नः भागः अस्ति। तेन उक्तं यत् धार्मिक-स्थलानां संरक्षणं विकासश्च केवलं श्रद्धायाः विषयः न, अपितु सांस्कृतिक-विरासतां संरक्षितुं माध्यमम् अपि अस्ति।

मुख्यमन्त्रिणा उक्तं यत् राज्य-सर्वकारः प्रदेशस्य धार्मिक-सांस्कृतिक-धरोहराणां संरक्षण-विकासयोः निरन्तरं कार्यं करोति। तेन इदमपि उक्तं यत् भगवान् भोलेनाथस्य तथा महाबली-हनुमान्-मूर्तयः समाजे सकारात्मक-ऊर्जां, श्रद्धां तथा जनकल्याण-भावनां च सुदृढां करिष्यन्ति।

तेन उक्तं यत् एतादृशाः धार्मिक-कार्यक्रमाः समाजे एकतां, भ्रातृत्वं तथा संस्कारान् वर्धयन्ति।

कार्यक्रमे श्रद्धालवः मुख्यमन्त्रिणं हार्दिकतया स्वागतवन्तः तथा क्षेत्रे धार्मिक-सांस्कृतिक-गतिविधीनां प्रोत्साहनं प्रति प्रसन्नतां व्यक्तवन्तः।

अस्मिन् अवसरे मान्यता-प्राप्त-मन्त्री अनिल-कपूर-डब्बू, रणजीत-सिंह-नामधारी, किशन-सिंह-किन्ना, नगरपालिका-अध्यक्षः रमेशचन्द-जोशी, पूर्व-विधायकः प्रेमसिंह-राणा, नगर-पंचायत-नानकमत्ता-अध्यक्षः प्रेमसिंह-टुरना, सांसद-प्रतिनिधिः रविन्द्र-राणा, जनपदाधिकारी नितिन-सिंह-भदौरिया, वरिष्ठ-उप-आरक्षक-अधीक्षकः अजय-गणपति:, अपर-जनपदाधिकारी कौस्तुभ-मिश्र:, अपर-आरक्षक-अधीक्षकः उत्तम-सिंह-नेगी इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan