Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ जूनमासः (हि.स.)। वैश्विक-समस्याया: संसाधन-संकटस्य च अस्मिन् काले स्थायि-विकासस्य प्रोत्साहनार्थं ‘विश्व-चक्रीय-अर्थव्यवस्था-मञ्चस्य’ दशम-संस्करणस्य आतिथ्यं भारतं करिष्यति। अस्य आयोजनं प्रथमवारं भारते भविष्यति।
गुजरात-राज्यस्य राजधानी गान्धीनगरे १५ तः १८ सेप्टेम्बर-पर्यन्तं आयोज्यमानस्य अस्य वैश्विक-कार्यक्रमस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्र-मोदी-महोदयेन करिष्यते इति सम्भावना वर्तते। अस्मिन् कार्यक्रमे अनेक-वैश्विक-नेतारः, विशेषतः वैश्विक-दक्षिण-देशानां नेतारः, सहभागीभविष्यन्तीति अपेक्षा अस्ति। अस्य महत्त्वपूर्णस्य वैश्विक-आयोजनस्य प्रमुखः उद्देश्यः वर्तमानस्य अशान्त-समस्यापूर्ण-समयस्य मध्ये समृद्धेः, कल्याणस्य च संरक्षणार्थं श्रेष्ठ-चक्रीय-समाधानानां प्रदर्शनम् अस्ति।
डब्ल्यूसीईएफ्-२०२६ इत्यस्य आयोजनं फिनलैण्ड-देशस्य नवाचार-निधिना ‘सिट्रा’ तथा भारतस्य केन्द्रीय-प्रदूषण-नियन्त्रण-मण्डलेन संयुक्तरूपेण क्रियते। अस्मै केन्द्रीय-पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालयस्य समर्थनं प्राप्तम् अस्ति। गुजरात-सर्वकारस्य समन्वयेन वैश्विक-भारतीय-सहभागिनां सहयोगेन च एषः कार्यक्रमः सम्पन्नः भविष्यति।
‘सिट्रा’ संस्थायाः वैश्विक-चक्रीय-अर्थव्यवस्था-कार्यक्रमस्य निदेशकः कारी-हरलेवी-महोदयः वर्तमान-स्थितिं प्रति चिन्तां व्यक्तवान्। तेन उक्तं यत् पश्चिम-देशेषु तथा वैश्विक-दक्षिण-देशेषु नीतिनिर्मातृणां कृते संसाधनानां पर्याप्तता महती चिन्ताविषया जाता अस्ति। वैश्विक-संघर्षाणां मध्ये विश्वस्य बहुषु भागेषु जीवन-व्ययः निरन्तरं वर्धते। अपरतः अस्माकं वर्तमानः रैखिक-अर्थव्यवस्था-नमूना — “उत्पादय, उपयुज्य त्यज” — इति व्यवस्था विशाल-परिमाणेन संसाधनानां अपव्ययं करोति।
डब्ल्यूसीईएफ्-संस्थायाः सहयोगी-संस्थया ‘सर्किल-इकोनॉमी’ इति डच-संस्थया प्रकाशितानां नवीन-विवरणानां अनुसारं, अस्याः रैखिक-अर्थव्यवस्थायाः कारणात् विश्वस्य प्रतिवर्षं प्रायः ३० ट्रिलियन-डॉलर-परिमितः आर्थिक-हानिः भवति। अस्य वर्षस्य मुख्य-विषयः “चक्रीय-अर्थव्यवस्था : जनानां समृद्धेः च कृते परिवर्तनम्” इति निर्धारितः अस्ति। अस्य उद्देश्यः विश्वस्य समुदायान् उद्योगान् च सफल-भविष्य-निर्माणाय एकत्र आनयनम् अस्ति।
अस्मिन् दिशि भारतं स्वस्य ‘मिशन-लाइफ्’ अभियानस्य माध्यमेन पूर्वमेव वैश्विक-नेतृत्वं वहति। एतत् अभियानं पर्यावरण-संरक्षणार्थं वैयक्तिक-सामुदायिक-स्तरे परिवर्तनम् आनयितुं वैश्विक-जनान्दोलनरूपेण विकसितः अस्ति।
एतदतिरिक्तं भारतं ३-आर्-सिद्धान्तान् — न्यूनीकरणम्, पुनरुपयोगः, पुनर्चक्रणम् — तथा स्वच्छ-भारत-अभियानम् इत्यादीनां उपक्रमाणां माध्यमेन चक्रीय-अर्थव्यवस्थायाः सिद्धान्तान् प्रोत्साहयति।
चतुर्दिनात्मकस्य अस्य मञ्चस्य प्रथमौ द्वौ दिवसौ मुख्य-मञ्च-सत्रेभ्यः समर्पितौ भविष्यतः, येषां रूपरेखा सह-आयोजकैः सहभागिभिश्च निर्मास्यते। अन्तिमौ द्वौ दिवसौ ‘त्वरण-सत्रेभ्यः’ समर्पितौ भविष्यतः। तदतिरिक्तं भारतस्य विश्वस्य च श्रेष्ठ-चक्रीय-समाधानानां प्रदर्शनार्थं विशाल-प्रदर्शिनी अपि आयोजिता भविष्यति।
अस्मिन् वर्षे प्रथमवारं त्वरण-सत्राणां प्रदर्शनी-क्षेत्रस्य च कृते ‘मुक्त-आह्वान-प्रक्रिया’ आरब्धा अस्ति। त्वरण-सत्राणां आवेदन-प्रक्रिया पूर्वमेव आरब्धा, प्रदर्शिनी-आयोजनार्थं आवेदन-प्रक्रिया तु जूनमासस्य अन्ते आरभ्यते इति अपेक्षा अस्ति। एषः मञ्चः वैश्विक-स्तरे भारतं चक्रीय-अर्थव्यवस्था-क्षेत्रे अग्रणी-नेतृत्वस्य स्थाने प्रतिष्ठापयितुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।
Hindusthan Samachar / Divya Ranjan