बिहारस्य सर्वेभ्यो भूमिहीन परिवारेभ्यो मिलिष्यति तीन डिसमिलमिता भूमिः, शीघ्रं शुभारप्स्यते अभियानम् बसेरा 3इत्येतत् : दिलीप जायसवालः
किशनगंजः, 15 जूनमासः (हि.स.)। बिहारस्य राजस्व एवं भूमि सुधार मंत्री डॉ. दिलीप कुमार जायसवाल उक्तवान् यत् राज्यस्य प्रत्येकस्मै दरिद्राय वासभूमिविहीनाय परिवाराय सम्मानपूर्वकं जीवनयापनाय निःशुल्कभूमिप्रदानस्य दिशि सरकारः शीघ्रतया कार्यं करोति। अस्यैव
बिहार के सभी भूमिहीन परिवारों को मिलेगी तीन डिसमिल जमीन, जल्द शुरू होगा अभियान बसेरा-3 : दिलीप जायसवाल


किशनगंजः, 15 जूनमासः (हि.स.)। बिहारस्य राजस्व एवं भूमि सुधार मंत्री डॉ. दिलीप कुमार जायसवाल उक्तवान् यत् राज्यस्य प्रत्येकस्मै दरिद्राय वासभूमिविहीनाय परिवाराय सम्मानपूर्वकं जीवनयापनाय निःशुल्कभूमिप्रदानस्य दिशि सरकारः शीघ्रतया कार्यं करोति। अस्यैव श्रृंखलायां १५ जूनतः २१ जून २०२६ पर्यन्तं सम्पूर्णे राज्ये अभियान बसेरा २ अन्तर्गतं विशेषाभियानं सञ्चालितं भविष्यति, यस्य माध्यमेन अवशिष्टेभ्यः सर्वेभ्यः पात्रेभ्यः भूमिविहीनेभ्यः परिवारेभ्यः बन्दोबस्ती प्रमाणपत्राणि प्रदास्यन्ते।

मन्त्री उक्तवान् यत् स्वातन्त्र्यस्य ७८ वर्षाणां अनन्तरमपि बिहारराज्ये बहुसंख्यकाः एवं प्रकाराः परिवाराः सन्ति, येषां निवासाय स्वकीया भूमिः नास्ति। अस्याः समस्यायाः स्थायिसमाधानाय राजस्व एवं भूमि सुधार विभागेन निर्णयः कृतः यत् राज्यस्य सर्वेभ्यः भूमिविहीनेभ्यः परिवारेभ्यः त्रयः डिसमिल भूमिः प्रदास्यते। एतदर्थम् आगामिदशदिनानां अन्तः अभियान बसेरा ३ इत्यस्य आरम्भः क्रियिष्यते।

डॉ. जायसवाल अवदत् यत् अभियान बसेरा ३ अन्तर्गतं पात्रेभ्यः भूमिविहीनेभ्यः परिवारेभ्यः केवलं निःशुल्कभूमिः एव न प्रदास्यते, अपि तु तान् आवासीययोजनाभिः सह संयोज्य गृह निर्माणस्य सुविधापि प्रदास्यते।

सः उक्तवान् यत् नगरीयक्षेत्रेषु निवसन्तः भूमिविहीनाः परिवाराः तेषां समीपस्थेषु पंचायतक्षेत्रेषु भूमिं प्राप्स्यन्ति, येन ते स्थायिनिवासस्य लाभं प्राप्तुं शक्नुयुः।

अस्मिन् अवसरे मन्त्री श्रावणी मेला २०२६ इत्यस्य सज्जतासम्बन्धे अपि महत्त्वपूर्णां सूचनां प्रदत्तवान्। सः अवदत् यत् राजस्व एवं भूमि सुधार विभागेन राज्यस्य १३ जिलेषु आयोजितानां श्रावणी मेलानां सज्जतार्थं कुल ५.५० कोटि रूप्यकाणां स्वीकृतिः प्रदत्ता अस्ति।

स्वीकृतराशौ भागलपुर श्रावणी मेला कृते १.३० कोटि रूप्यकाणि, बांका एवं मुंगेर कृते एकैकं कोटि रूप्यकाणि, लखीसराय कृते ७५ लक्ष रूप्यकाणि, मुजफ्फरपुरस्य बाबा गरीबनाथ एवं बाबा दूधनाथ मंदिर मेलयोः कृते ५० लक्ष रूप्यकाणि तथा बेगूसरायस्य विभिन्नघाटानां धार्मिकस्थलानां च कृते ३० लक्ष रूप्यकाणि समाविष्टानि सन्ति। अतिरिक्तरूपेण जमुई, पूर्णिया एवं मधुबनी इत्येतेभ्यः १० १० लक्ष रूप्यकाणि, वैशाली एवं सारण इत्येताभ्यां २.५० २.५० लक्ष रूप्यकाणि, पूर्वी चंपारणस्य अरेराज मंदिराय ५ लक्ष रूप्यकाणि तथा जहानाबादस्य वानावर श्रावणी मेला कृते २५ लक्ष रूप्यकाणां स्वीकृतिः प्रदत्ता अस्ति। मन्त्री उक्तवान् यत् श्रद्धालूनां सुविधायै उत्तमव्यवस्थानां सुनिश्चित्यर्थं एषा राशिः प्रदत्ता अस्ति।

Hindusthan Samachar / Dheeraj Maithani