Enter your Email Address to subscribe to our newsletters


बदरीनाथः/केदारनाथः, 15 जूनमासः (हि.स.)। देशस्य प्रसिद्धः उद्योगपति मुकेश अंबानी सोमवासरे उत्तराखण्डस्थितयोः भगवान् बदरीविशालस्य बाबा केदारनाथस्य च दर्शनं कृत्वा देशस्य सुखसमृद्धेः कल्याणस्य च प्रार्थनाम् अकरोत्। अस्मिन् अवसरे तेन बदरीनाथकेदारनाथमन्दिरसमित्यै (बीकेटीसी) दशकोटिरूप्यकाणां दानमपि प्रदत्तम्।
बीकेटीसी इत्यस्य अनुसारं मुकेश अंबानी प्रथमं बदरीनाथधामं गत्वा भगवान् बदरीविशालस्य दर्शनं पूजनं च अकरोत्। ततः अनन्तरं सः केदारनाथधामे बाबा केदारनाथस्य दर्शनं कृतवान्। उभयोः धाम्नोः मन्दिरसमितेः पदाधिकारिणः तस्य स्वागतं कृत्वा प्रसादं समर्पितवन्तः।
अस्मिन् समये मुकेश अंबानी बदरीनाथधामस्य व्यवस्थार्थं पञ्चकोटिरूप्यकाणां तथा केदारनाथधामस्य व्यवस्थार्थम् अपि पञ्चकोटिरूप्यकाणां द्वौ धनादेशौ बीकेटीसी इत्यस्मै समर्पितवान्।
बीकेटीसी अध्यक्षः हेमन्त द्विवेदी उक्तवान् यत् अंबानीकुटुम्बस्य भगवान् बदरीविशालस्य बाबा केदारनाथस्य च प्रति गाढा श्रद्धा अस्ति। सः अवदत् यत् पूर्ववर्षेषु इव अस्मिन् वर्षेऽपि मुकेश अंबानी मन्दिरसमित्यै उदारसहयोगं प्रदत्तवान्, यस्य कृते समितिः तस्य प्रति कृतज्ञा अस्ति।
बदरीनाथधामे अस्मिन् अवसरे बदरीनाथकेदारनाथमन्दिरसमितेः उपाध्यक्षः ऋषि प्रसाद सती, सदस्यः धीरज मौनू पंचभैया, रजनीश भट्ट, मुख्यकार्याधिकारी सोहन सिंह रांगड़, पूर्व मुख्यकार्याधिकारी बीडी सिंह, प्रभारी अधिकारी गिरीश चौहान, पूर्वसदस्यः भास्कर डिमरी, धर्माधिकारी स्वयंवर सेमवाल, वेदपाठी रविन्द्र भट्ट, प्रमोद नौटियाल, भूपेन्द्र रावत तथा अन्ये अधिकारी कर्मचारी च उपस्थिताः आसन्। मन्दिरसमितेः पदाधिकारिणः मुकेश अंबानी इत्यस्य स्वागतं कृत्वा तस्य सहयोगाय आभारं व्यक्तवन्तः।
केदारनाथधाम्नि बीकेटीसी उपाध्यक्षः विजय कप्रवान, सदस्यः डा. विनीत पोस्ती, प्रभारी अधिकारी विपिन तिवारी, केदारसभा अध्यक्षः राजकुमार तिवारी, पुजारी टी गंगाधर लिंग, वरिष्ठ प्रशासनिक अधिकारी डीएस भुजवाण, वरिष्ठ सहायकः विपिन तिवारी, जेई विपिन कुमार, विवेक शुक्ल, दीपक पंवार, सूरज जमलोकी इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani