अरुणाचल-प्रदेशस्य धर्म-स्वातन्त्र्य-अधिनियम-विषये मुख्यमन्त्रिणा मञ्चेन सह सभा कृता
इटानगरनगरम्, १५ जूनमासः (हि.स.)। अरुणाचल-प्रदेशस्य मुख्यमन्त्री पेमा-खाण्डू-महोदयस्य अरुणाचल-क्रिश्चियन-मंचेन सह सभा आयोजिता अभवत्। मुख्यमन्त्री उक्तवान् यत् अरुणाचल-क्रिश्चियन-मंचस्य नवनिर्वाचित-केंद्रीय-कार्यकारिणी-सदस्यै: सह अद्यतन-सभा सकारात्मक
अरुणाचल प्रदेश धर्म की स्वतंत्रता अधिनियम को लेकर मुख्यमंत्री ने फोरमके साथ बैठ कि


इटानगरनगरम्, १५ जूनमासः (हि.स.)। अरुणाचल-प्रदेशस्य मुख्यमन्त्री पेमा-खाण्डू-महोदयस्य अरुणाचल-क्रिश्चियन-मंचेन सह सभा आयोजिता अभवत्। मुख्यमन्त्री उक्तवान् यत् अरुणाचल-क्रिश्चियन-मंचस्य नवनिर्वाचित-केंद्रीय-कार्यकारिणी-सदस्यै: सह अद्यतन-सभा सकारात्मक-फलप्रदा तथा सार्थक-रूपा आसीत्। एषा चर्चा ‘अरुणाचल-प्रदेश-धर्म-स्वातन्त्र्य-अधिनियमः १९७८’ इत्यस्य नियम-प्रारूप-विषये आसीत्।

सः अवदत् यत् सर्वकारस्य प्रमुखा प्राथमिकता सदा शान्तिः, सौहार्दं तथा विकासः एव अस्ति। अस्मिन् रम्ये राज्ये कश्चन अपि धार्मिक-समुदायः कदापि पीडितः, पृथक् कृतः अथवा परित्यक्तः इति न अनुभवेत्। सर्वा आस्था:, सर्वा परम्परा:, सर्वः नागरिकः च अरुणाचल-परिवारस्य अमूल्यम् अङ्गम् अस्ति।

अस्मिन् मध्ये अरुणाचल-क्रिश्चियन-मंचस्य अध्यक्षः टेची-जेम्स-तारा उक्तवान् यत् सभायां ते एतस्य अधिनियमस्य निरसनाय आग्रहं कृतवन्तः। मुख्यमन्त्रिणा अस्मिन् आग्रहः स्वीकृतः तथा प्रतिनिधि-दलेन सह सर्व-सम्बद्ध-पक्षैः परामर्श-सभाम् आह्वातुं आश्वासनं दत्तम्। मुख्यमन्त्री पेमा-खाण्डू-महोदयेन अपि आश्वस्तं कृतम् यत् राज्य-सर्वकारः ‘अरुणाचल-प्रदेश-धर्म-स्वातन्त्र्य-अधिनियम-नियमाः, २०२६’ इत्यस्य अन्तिम-निर्णयात् पूर्वं सर्वैः धार्मिक-समूहैः सह संवादं करिष्यति।

अस्य सकारात्मक-विकासस्य कारणात् अरुणाचल-क्रिश्चियन-मंचेन १८ जून-निर्धारितायाः विशाल-वाहन-शोभायात्राया: स्थगनस्य निर्णयः कृतः।

Hindusthan Samachar / Divya Ranjan