Enter your Email Address to subscribe to our newsletters


सीवानम्, 15 जूनमासः (हि.स.)।
बिहारस्य मुख्यमन्त्री सम्राट चौधरी मङ्गलवासरे षोडश जून दिनाङ्के सिवान जनपदस्य पचरुखी प्रखण्डस्य अन्तर्गतायां पपौर पञ्चायते आगमिष्यति। अत्र सः सप्त निश्चय योजना तृतीयस्य अन्तर्गतं आयोजिते सर्वेषां सम्मानः जीवनं सुकरम् इति सहयोग शिविरे सहभागं करिष्यति तथा जनपदाय चतुर्शत् पञ्चदश कोटि अष्टादश लक्ष रूप्यकाणां विकास योजनानां उपहारं प्रदास्यति।
मुख्यमन्त्री जनसमस्यानां शीघ्रं प्रभावपूर्णं च समाधानं कर्तुम् आयोजिते सहयोग शिविरे सम्मिलितः भविष्यति। अस्मिन् अवसरे सः जनपदस्य कुल चतुश्चत्वारिंशत् विकास योजनानां उद्घाटनं शिलान्यासं च करिष्यति।
कार्यक्रमस्य अन्तर्गतं मुख्यमन्त्री शत अष्टसप्तति कोटि अष्टत्रिंशत् लक्ष रूप्यकाणां अष्टादश योजनानां शिलान्यासं तथा द्विशत् षट्त्रिंशत् कोटि अशीतिलक्ष रूप्यकाणां षड्विंशति योजनानाम् उद्घाटनं करिष्यति। समग्ररूपेण चतुर्शत् पञ्चदश कोटि अष्टादश लक्ष रूप्यकाणां योजनानां लोकार्पणं शिलान्यासं च तेन क्रियते।
तदनन्तरं मुख्यमन्त्री विभिन्न विभागैः स्थापितानां विंशति प्रदर्शन कक्षाणां निरीक्षणं करिष्यति। एतेषु प्रदर्शन कक्षेषु जीविका, स्वास्थ्य, कृषि, शिक्षा, पञ्चायती राज, समाजकल्याण, ऊर्जा, परिवहन, सहकारिता, उद्योग, क्रीडा, वन तथा अन्येषां विभागानां योजनानां उपलब्धीनां च सूचना प्रदर्शिता भविष्यति।
निरीक्षणस्य अनन्तरं मुख्यमन्त्री पपौर ग्रामे आयोजितां विशालां जनसभां सम्बोधयिष्यति तथा राज्य सरकारस्य जनकल्याणकारी योजनानां विकासकार्याणां च विषये जनान् सूचयिष्यति।
जनपद प्रशासनम् कार्यक्रमस्य सर्वाः सिद्धताः सम्पन्नाः कृतवान् अस्ति तथा बहुसंख्यक जनानाम् आगमनस्य सम्भावनां दृष्ट्वा व्यापक व्यवस्थाः कृताः सन्ति।
Hindusthan Samachar / Dheeraj Maithani