राज्यपालाय हरिबाबू-कम्भम्पाटि-महोदयाय मुख्यमन्त्रिणा जन्मदिन-शुभकामनाः प्रदत्ताः
भुवनेश्वरनगरम्, १५ जूनमासः (हि.स.)। ओडिशा-राज्यस्य मुख्यमन्त्रिणा मोहनचरण-माझी-महोदयेन राज्यपालाय हरिबाबू-कम्भम्पाटि-महोदयाय तस्य जन्मदिनावसरे हार्दिक-शुभकामनाः अभिनन्दनानि च प्रदत्तानि। मुख्यमन्त्रिणा सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे उक्तं
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरनगरम्, १५ जूनमासः (हि.स.)। ओडिशा-राज्यस्य मुख्यमन्त्रिणा मोहनचरण-माझी-महोदयेन राज्यपालाय हरिबाबू-कम्भम्पाटि-महोदयाय तस्य जन्मदिनावसरे हार्दिक-शुभकामनाः अभिनन्दनानि च प्रदत्तानि।

मुख्यमन्त्रिणा सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे उक्तं यत् राज्यपालस्य दूरदर्शी-मार्गदर्शनम् ओडिशा-राज्यस्य विकास-यात्रायां अत्यन्तं प्रेरणादायकं वर्तते। तेन राज्यस्य सर्वाङ्गीण-विकासाय जनकल्याणाय च राज्यपालस्य योगदानस्य प्रशंसा कृता।

मुख्यमन्त्री माझी-महोदयः भगवन्तं श्रीजगन्नाथं प्रति प्रार्थनां कृत्वा राज्यपालस्य सुखमय-स्वस्थ-दीर्घायु-जीवनस्य कामनाम् अकरोत्। सः उक्तवान् यत् प्रभुः श्रीजगन्नाथः राज्यपालाय राष्ट्रसेवार्थं निरन्तरं शक्तिं ऊर्जां च उत्तम-स्वास्थ्यं प्रददातु।

मुख्यमन्त्रिणा राज्यपालस्य उज्ज्वल-स्वस्थ-सफल-जीवनाय अपि मङ्गलकामनाः व्यक्ताः।

Hindusthan Samachar / Divya Ranjan