ओमानस्य घाट्यां त्रयाणां भारतीयनाविकानां मृत्यौ सर्वकारस्य अभिमुखता निराशाजनिका - कांग्रेसदलम्
नवदिल्ली, 15 जूनमासः (हि.स.)।काङ्ग्रेसदलेन ओमानखाड्यां अमेरिकीयाक्रमणे त्रयाणां भारतीयनाविकानां मृत्यौ शोकः व्यक्तः। दलेन सर्वकारस्य विदेशनीतेः विषये प्रश्नाः उत्थापिताः तथा उक्तं यत् अस्माकं नागरिकानां मृत्यौ सर्वकारः मौनः किमर्थम् अस्ति। पीडितजना
नई दिल्ली स्थित पार्टी मुख्यालय में पत्रकार वार्ता के दौरान कांग्रेस सोशल मीडिया व डिजिटल प्लेटफॉर्म्स की अध्यक्ष सुप्रिया श्रीनेत।


नवदिल्ली, 15 जूनमासः (हि.स.)।काङ्ग्रेसदलेन ओमानखाड्यां अमेरिकीयाक्रमणे त्रयाणां भारतीयनाविकानां मृत्यौ शोकः व्यक्तः। दलेन सर्वकारस्य विदेशनीतेः विषये प्रश्नाः उत्थापिताः तथा उक्तं यत् अस्माकं नागरिकानां मृत्यौ सर्वकारः मौनः किमर्थम् अस्ति। पीडितजनानां न्यायस्य मागं कुर्वता दलेन वैश्विकमञ्चे सर्वकारस्य स्थितिः अत्यन्तं दुर्बला निराशाजनका च कथिता।

काङ्ग्रेसस्य सामाजिकमाध्यम डिजिटलमञ्चयोः अध्यक्षा सुप्रिया श्रीनेत सोमवासरे अत्र दलस्य मुख्यालये आयोजितायां पत्रकारवार्तायाम् उक्तवती यत् एकादशजूनमासदिने ओमानखाड्यां एमटी सेटेबेलो नाम्नि जलयाने अमेरिकीयाक्रमणे हिमाचलप्रदेशस्य आदित्य शर्मा, उत्तरप्रदेशस्य शिवानन्द चौरसिया तथा आन्ध्रप्रदेशस्य पटनाला सुरेश इति त्रयः भारतीयवीरनाविकाः मृत्युम् अगच्छन्। अस्य युद्धस्य भारतेन सह किमपि सम्बन्धः नास्ति तथापि भारतीयनागरिकाः अस्मिन् संघर्षे निरर्थकं मृत्युम् प्राप्नुवन्ति।

श्रीनेत उक्तवती यत् आगामीविदेशयात्रायाम् यदा प्रधानमन्त्री मोदी अमेरिकीयराष्ट्रपतिं डोनाल्ड ट्रंपं मिलिष्यति तदा किम् सः एतं गम्भीरं विषयं तस्य पुरतः स्थापयिष्यति तथा च भारतीयेषु जातस्य अस्य कायरतापूर्णस्य आक्रमणस्य उत्तरं याचिष्यति। काङ्ग्रेसनेत्र्या विदेशमन्त्रालयेन कृता राजनयिकक्रिया अपर्याप्ता केवलं औपचारिकप्रयासः च कथिता। सा उक्तवती यत् विदेशमन्त्री एस जयशंकर अमेरिकीयकार्यवाहकराजदूतं आहूय केवलं मृदुस्वरेण आपत्तिं निवेदितवान्। परन्तु अमेरिकीयविदेशसचिवः मार्को रुबियो क्षमायाचनां शोकप्रकाशनं वा न कृत्वा एतस्य हिंसात्मककार्यस्य समर्थनं कृतवान्, यस्य खण्डनम् अपि सर्वकारेण अद्यावधि न कृतम्।

श्रीनेत उक्तवती यत् भारतस्य सार्वभौमत्वस्य स्वतन्त्रतायाः च सम्मानं कर्तुं स्थानम् उपेक्ष्य सर्वकारः अमेरिकादेशस्य सम्मुखे पूर्णतया नतमस्तकः दृश्यते। तया उक्तं यत् आगामीवाणिज्यसहमतेः अन्तिमरूपनिर्धारणार्थम् भारतं आगच्छतः अमेरिकीयवाणिज्यप्रतिनिधेः जैमीसन ग्रीर इत्यस्य यात्रायाः अधुना किमपि औचित्यं न अवशिष्यते, यतः अमेरिकादेशेन अस्माकं नागरिकानां प्राणाः हृताः तथा च खेदं न प्रकट्य देशस्य निरन्तरम् अपमानं कृतम्।

-------------

Hindusthan Samachar / Dheeraj Maithani