Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ जूनमासः (हि.स.)। भारतीय-राष्ट्रीय-काङ्ग्रेस-दलस्य महासचिवः के.सी.वेणुगोपालः उक्तवान् यत् केरले सत्तां स्वीकृत्य एकमासस्य अन्तरे एव युनाइटेड-डेमोक्रेटिक-फ्रण्ट् सर्वकारेण स्वस्य प्रथमा ‘इन्दिरा-गारण्टी’ कार्यान्विता कृता। दीर्घकालात् प्रतीक्षिता प्रियदर्शिनी-निःशुल्क-बस-योजना अधुना प्रवर्तिता अस्ति।
वेणुगोपालः सोमवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र उक्तवान् यत् अस्याः योजनायाः अन्तर्गतं केरलस्य महिलाः केएसआरटीसी-बस-यानैः निःशुल्कं यात्रां कर्तुं शक्नुवन्ति तथा प्रतिमासं सहस्रशः रूप्यकाणां सञ्चयं कर्तुं समर्थाः भविष्यन्ति। एतत् जनहितकारी-पदम् इति वर्णयन् सः उक्तवान् यत् यूडीएफ-सर्वकारः सर्वदा जनकल्याणाय प्रतिबद्धः भवति तथा स्वप्रतिज्ञा: पूरयति।
सः अपि उक्तवान् यत् कर्नाटक-राज्ये, तेलङ्गानायां अथवा अधुना केरले अपि यूडीएफ-नेतृत्वेन जनहिताय दृढ-पदानि स्वीकृतानि। एषा योजना महिलानाम् आर्थिक-सशक्तीकरणेन सह सामाजिक-सुरक्षामपि प्रदास्यति।
Hindusthan Samachar / Divya Ranjan