कैंची धाम्ने काठगोदामात् 179 बसयानैः भविष्यति यात्रा
हल्द्वानी , 15 जूनमासः (हि.स.)। कैंचीधाममेलायाः निमित्तं श्रद्धालूनां सुविधार्थं प्रशासनद्वारा विशेषपरिवहनव्यवस्था कृता अस्ति। सिटि मजिस्ट्रेट एपी बाजपेई इत्यस्य निर्देशनस्य अधीने काठगोदाम तथा हल्द्वानीतः कैंचीधामं नैनीतालमार्गं च प्रति शटल बसयान
केएमओयू


हल्द्वानी , 15 जूनमासः (हि.स.)।

कैंचीधाममेलायाः निमित्तं श्रद्धालूनां सुविधार्थं प्रशासनद्वारा विशेषपरिवहनव्यवस्था कृता अस्ति। सिटि मजिस्ट्रेट एपी बाजपेई इत्यस्य निर्देशनस्य अधीने काठगोदाम तथा हल्द्वानीतः कैंचीधामं नैनीतालमार्गं च प्रति शटल बसयानानां सञ्चालनम् आरब्धम् अस्ति।

व्यवस्थानुसारं काठगोदामतः एकषष्टिः केएमओयू स्थानकात् षट्षष्टिः तथा रोडवेज स्थानकात् द्वाविंशतिः शटल बसयानानि कैंचीधामं प्रति सञ्चालितानि सन्ति। तथा नैनीतालमार्गस्य कृते त्रिंशत् शटल बसयानानि नियुक्तानि सन्ति। सिटि मजिस्ट्रेट एपी बाजपेई अवदत् यत् समग्रतः एकोनाशीत्यधिकशतं शटल बसयानानां माध्यमेन श्रद्धालुभ्यः पर्यटकेभ्यः च सुगमा सुरक्षितायात्रासुविधा प्रदीयते। जनसमूहनियन्त्रणं यातायातव्यवस्थां च दृष्ट्वा सर्वेषु मार्गेषु विशेषनिगराणी क्रियते।

Hindusthan Samachar / Dheeraj Maithani