Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 15 जूनमासः (हि.स.)।
केन्द्रसर्वकारस्य उच्चस्तरीयशिक्षायोजनायाः अन्तर्गतं व्यावसायिकाः, अनुसंधानकर्तारः तथा उद्यमिनः राष्ट्रस्य विकासकार्याणि वेगेन अग्रे नयन्ति। एषा योजना अनुसूचितजातिवर्गस्य विद्यार्थिनां कृते अस्ति। अद्यावधि चतुःसहस्रसप्तशतद्विचत्वारिंशत् वञ्चितविद्यार्थिनः अस्याः योजनायाः लाभं प्राप्तवन्तः।
केन्द्रीयसामाजिकन्यायाधिकारितामन्त्रालयस्य अनुसारेण सर्वकारस्य लक्ष्यं यत् अनुसूचितजातिवर्गीयविद्यार्थिभ्यः गुणवत्तायुक्ता शिक्षा प्राप्यते तथा च ते सशक्ताः भवन्ति। तेषाम् विद्यार्थिनाम् योगदानेन राष्ट्रस्य भविष्यं उज्ज्वलम् आत्मनिर्भरं च भविष्यति। अस्मिन् नवप्रवर्तकाः नेतारः च अपि अन्तर्भवन्ति।
अस्याः योजनायाः लाभः केवलं तैः विद्यार्थिभिः प्राप्तुं शक्यते येषां परिवारस्य वार्षिकम् आयम् अष्टलक्षरूप्यकाणि अस्ति। एतेभ्यः समुदायानां मेधाविभ्यः विद्यार्थिभ्यः उच्चसंस्थासु निःशुल्कप्रवेशः प्रदीयते। एतासु संस्थासु विद्यार्थिभ्यः अनुसंधानं नवाचारं च कर्तुम् अवसरः लभ्यते। तेषाम् योगदानेन, निष्ठया परिश्रमेण च राष्ट्रं वैश्विकस्तरे प्रतिस्पर्धायोग्यं भवति।
सम्प्रति अस्याः योजनायाः अन्तर्गतं विद्यार्थिनः भारतीयप्रौद्योगिकीसंस्थानेषु, राष्ट्रियप्रौद्योगिकीसंस्थानेषु, भारतीयसूचनाप्रौद्योगिकीसंस्थानेषु, राष्ट्रियविधिविश्वविद्यालयेषु, राष्ट्रियरचनासंस्थानेषु, भारतीयप्रबन्धनसंस्थानेषु तथा अन्येषु राष्ट्रियमहत्त्वयुक्तेषु संस्थानेषु उच्चशिक्षां प्राप्नुवन्ति।
मन्त्रालयस्य अनुसारेण एषा योजना केन्द्रसर्वकारस्य शैक्षिकसशक्तीकरणस्य, समावेशनस्य तथा समानावसरस्य प्रति प्रतिबद्धतां प्रदर्शयति। उल्लेखनीयम् अस्ति यत् एषा योजना द्विसहस्रसप्तवर्षे अष्टवर्षे च आरब्धा आसीत्। अद्यावधि चतुःसहस्रसप्तशतद्विचत्वारिंशत् विद्यार्थिनः अस्याः योजनायाः लाभं प्राप्तवन्तः। विद्यार्थिषु व्ययमानः वार्षिकव्ययः द्विकोटिसप्तदशलक्षरूप्यकेभ्यः वर्धित्वा एकशतसप्तदशकोटिनवदशलक्षरूप्यकाणि अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani