दूरदर्शन-अभिनेत्री संचिता-उगले आत्महत्यां कृतवती, मनोरञ्जन-जगति शोकः
मुम्बईनगरम्, १५ जूनमासः (हि.स.)। दूरदर्शन-जगतः सुप्रसिद्धा अभिनेत्री संचिता-उगले स्वगृहे मृतावस्थायां प्राप्ता। प्रारम्भिक-सूचनानुसारं तया कथितरूपेण आत्महत्या कृता इति ज्ञायते। आरक्षकैः प्रकरणस्य सविस्तरम् अन्वेषणं क्रियते। अस्याः घटनायाः अनन्तरं म
अभिनेत्री संचिता उगले फोटो- संचिता उगले इंस्टाग्राम


मुम्बईनगरम्, १५ जूनमासः (हि.स.)। दूरदर्शन-जगतः सुप्रसिद्धा अभिनेत्री संचिता-उगले स्वगृहे मृतावस्थायां प्राप्ता। प्रारम्भिक-सूचनानुसारं तया कथितरूपेण आत्महत्या कृता इति ज्ञायते। आरक्षकैः प्रकरणस्य सविस्तरम् अन्वेषणं क्रियते। अस्याः घटनायाः अनन्तरं मनोरञ्जन-जगति तस्याश्च प्रशंसकेषु शोकस्य वातावरणं व्याप्तम्।

आरक्षक-विभागस्य अनुसारं संचिता-उगले स्वमातृ-पितृभ्यां भगिन्या च सह मुम्बई-महानगर-प्रदेशस्य नालासोपारा-क्षेत्रे निवसन्ती आसीत्। घटनाकाले सा गृहे एकाकिनी आसीत्। प्रारम्भिक-अन्वेषणे ज्ञातम् यत् तया शाटिका-वस्त्रस्य साहाय्येन उद्बन्धनं कृतम्। सूचनां प्राप्य आरक्षकाः घटनास्थलं प्राप्य शवं स्वाधीने कृत्वा अग्रिम-अन्वेषणम् आरब्धवन्तः। आरक्षक-अधिकारिणः वदन्ति यत् प्रकरणस्य सर्वे पक्षाः सम्यक्तया परीक्ष्यन्ते, अन्वेषणस्य समाप्तेः अनन्तरमेव स्थितिः स्पष्टा भविष्यति।

संचिता-उगले दूरदर्शनस्य अनेकेषु चर्चित-धारावाहिकेषु यथा ‘कुमकुम-भाग्य’, ‘दिलवाली-दूल्हा-ले-जाएगी’ तथा ‘साजन-घर’ इत्यादिषु कार्यं कृतवती आसीत्। सा चलचित्रेष्वपि अभिनयम् अकरोत् तथा समीपे एव प्रदर्शिते ‘छावा’ नाम्नि चलचित्रे अभिनेता विक्की-कौशलस्य सह-अभिनेत्रीरूपेण ‘ताराबाई’ इति पात्रं कृतवती आसीत्।

विशेषतया उल्लेखनीयम् अस्ति यत् निधनात् कतिपय-होराभ्यः पूर्वमेव तया सामाजिक-माध्यमेषु एकः लघु-चित्रफीतिका प्रसारिता आसीत्, यस्यां सा अत्यन्तं प्रसन्ना दृश्यते स्म। तस्याः आकस्मिक-मृत्योः समाचारं श्रुत्वा प्रशंसकाः स्तब्धाः अभवन् तथा सामाजिक-माध्यमेषु तस्यै श्रद्धाञ्जलिं समर्पयन्ति।

Hindusthan Samachar / Divya Ranjan