शासकीय-जनकल्याणकारी-योजनानां लाभः प्रत्येकं पात्रजनाय प्रदातव्यः — प्रभारी-मन्त्री
फतेहपुरम्, १४ जूनमासः (हि.स.)। उत्तरप्रदेशस्य फतेहपुर-जनपदे सोमवासरस्य रात्रौ ग्राम-चौपालस्य आयोजनं कृतम्। केन्द्र-सर्वकारस्य द्वादश-वर्षीय-कार्यकाल-पूर्णतायाः उपलक्ष्ये आयोजितेषु कार्यक्रमेषु प्रभारी-मन्त्री तथा खाद्य-सुरक्षा-औषधि-प्रशासन-विभागस्य
रात्रि चौपाल में ग्रामीणों को सयकार की जन कल्याणकारी योजनाओं की जानकारी देते प्रभारी मंत्री


फतेहपुरम्, १४ जूनमासः (हि.स.)। उत्तरप्रदेशस्य फतेहपुर-जनपदे सोमवासरस्य रात्रौ ग्राम-चौपालस्य आयोजनं कृतम्। केन्द्र-सर्वकारस्य द्वादश-वर्षीय-कार्यकाल-पूर्णतायाः उपलक्ष्ये आयोजितेषु कार्यक्रमेषु प्रभारी-मन्त्री तथा खाद्य-सुरक्षा-औषधि-प्रशासन-विभागस्य स्वतन्त्र-प्रभार-राज्यमन्त्री अजीतसिंह-पालः विकासखण्डस्य बहुआ-क्षेत्रस्य गम्हरी-ग्रामपञ्चायते आयोजिते रात्रि-चौपाले सहभागित्वम् अकरोत्।

अस्मिन् अवसरे सः ग्रामीणैः सह प्रत्यक्ष-संवादं कृत्वा तेषां समस्याः, विचारान् तथा सूचना: अशृणोत् तथा सम्बद्ध-अधिकारिणः समयबद्ध-गुणवत्तापूर्ण-निस्तारणाय निर्देशान् अददात्। रात्रि-चौपाले शासनस्य जनकल्याणकारी-योजनानां जन-जन-पर्यन्तं प्रसारणस्य उद्देश्येन स्वास्थ्य-विभागेन, आईसीडीएस-विभागेन, शिक्षा-विभागेन, कृषि-विभागेन, उद्यान-विभागेन, पशुपालन-विभागेन च विविध-प्रदर्शिन्य: स्थापिताः। विभागीय-अधिकारिणः उपस्थितेभ्यः ग्रामीणेभ्यः केन्द्र-राज्य-सर्वकारयोः योजनानां पात्रता, लाभाः, आवेदन-प्रक्रिया च विषये विस्तृतां सूचनाम् अददुः।

कार्यक्रमस्य समये आईसीडीएस-विभागेन गर्भवती-महिलानां गोद-भराई-संस्कारः तथा बालकानाम् अन्नप्राशन-संस्कारः सम्पन्नः।

प्रभारी-मन्त्री उक्तवान् यत् केन्द्र-राज्य-सर्वकारयोः अभिप्रायः अस्ति यत् प्रत्येकं पात्रजनाय योजनानां लाभः पारदर्शी-प्रभावी-समयबद्ध-रीत्या प्राप्नुयात्। सः अधिकारिणः निर्देशितवान् यत् प्रत्येकं पात्रं जनः शासकीय-योजनानां लाभं समये प्राप्नुयात्। सः अपि उक्तवान् यत् ग्रामीणेभ्यः नियमितरूपेण अन्न-वितरणं भवेत् तथा विद्युत्-आपूर्तिसम्बद्ध-समस्यानां शीघ्र-समाधानं सुनिश्चितं क्रियताम्।

अस्मिन् अवसरे अयाह-शाह-क्षेत्रस्य विधायकः विकास-गुप्तः, भाजपाया: जनपदाध्यक्षः अन्नू-श्रीवास्तवः च केन्द्र-सर्वकारस्य द्वादश-वर्ष-पूर्णतायाः अवसरस्य सन्दर्भे सरकारस्य उपलब्धीनां तथा प्रवर्तितानां जनकल्याणकारी-योजनानां विषये सूचनाम् अददाताम्।

एतस्मिन् कार्यक्रमे जनपदाधिकारी निधि-गुप्ता-वत्स:, मुख्य-विकास-अधिकारी पवनकुमार-मीना, जनपद-विकास-अधिकारी, डीआरडीए-परियोजना-निदेशकः, डीसी-मनरेगा, जनपद-पूर्ति-अधिकारी तथा अन्ये सम्बद्ध-विभागानाम् अधिकारिणः, कर्मचारीणः च, बहुसंख्यकाः ग्रामीणजनाश्च उपस्थिताः आसन्। रात्रि-चौपाले ग्रामीणजनाः उत्साहपूर्वकं सहभागित्वं कृत्वा शासनस्य योजनानां विषये सूचनां प्राप्तवन्तः।

Hindusthan Samachar / Divya Ranjan