Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 15 जूनमासः (हि.स)।केन्द्रीय वित्तमन्त्री निर्मला सीतारमण सोमवासरे उक्तवती यत् भारतदेशे अधिकविदेशीयपूञ्ज्याः आगमनार्थं सर्वकारेण अन्ये अपि पदक्षेपाः स्वीकर्तव्याः भविष्यन्ति। तया उक्तं यत् बन्धपत्रविपणिसम्बद्धाः घोषिताः उपायाः केवलम् आरम्भमात्रम् आसन्।
सीतारमण नूतनदेहल्यां आयोजिते हीरो माइण्डमाइन् समिट २०२६ कार्यक्रमे सम्बोधनं कुर्वन्ती एतत् उक्तवती। स्वस्य सम्बोधने सा उक्तवती, “वयं मन्यामहे यत् अस्माकम् अधिकविदेशीयपूञ्ज्याः आवश्यकता अस्ति।” वित्तमन्त्रिणा उक्तं यत् विदेशीयपूञ्जीप्रवाहस्य प्रोत्साहनार्थं भारतीय रिजर्ववित्तकोषेण तथा सर्वकारेण घोषिताः उपायाः केवलम् आरम्भः एव सन्ति, यतः अग्रे अपि बहवः पदक्षेपाः स्वीकर्तुं शक्यन्ते।
हीरो माइण्डमाइन् समिट २०२६ कार्यक्रमे सम्बोधनं कुर्वन्ती सा उक्तवती यत् सरकारी प्रतिभूतिषु विदेशीयनिवेशकानां निवेशस्य उपरि ब्याज इत्यस्य तथा पूञ्जीलाभकरस्य छूट इत्यादयः उपायाः विदेशीयपूञ्जीं पुनः आकर्षयितुं प्रथमः पदक्षेपः अस्ति। सीतारमण उक्तवती, “एतत् कथायाः अन्तः नास्ति, अपि च अन्ये पदक्षेपाः अपि गृहीष्यन्ते। वयं मन्यामहे यत् अस्माकम् अधिकविदेशीयपूञ्ज्याः आवश्यकता अस्ति।”
सीतारमण माइण्डमाइन् समिट २०२६ कार्यक्रमे हीरो एण्टरप्राइजस्य अध्यक्षः सुनील कांत मुंजाल तथा मोतीलाल ओसवाल फाइनेंशियल सर्विसेज लिमिटेडस्य अध्यक्षः रामदेव अग्रवाल इत्येताभ्यां सह अनौपचारिकवार्तायां सहभागं कृतवती। अस्याः समये वित्तमन्त्री उक्तवती यत् वैश्विकीया स्थितिः प्रत्यासप्ताहं परिवर्तते तथा नूतनानि आव्हानानि समक्षम् आगच्छन्ति। अतः राष्ट्रं सर्वासु आपत्कालीनस्थितिषु सज्जं भवितुम् आवश्यकम् अस्ति।
तया उक्तं यत् भारतीय रिजर्ववित्तकोषेण घोषितस्य व्यवस्थायाः अन्तर्गतं मुद्रासंकटस्य व्ययः भारतीय रिजर्ववित्तकोषेण वहिष्यते, येन वित्तकोषाःनिरवरोधं स्वीयसंसाधनानि सङ्ग्रहीतुं समर्थाः भविष्यन्ति। भारतीयार्थव्यवस्था कच्चद्रव्यस्य, कच्चतैलस्य तथा उर्वरकाणाम् आयातकारणात् गम्भीरदबावम् अनुभवति।
तथापि तया उक्तं यत् सक्रियनीतिनां तथा राज्येषु सुदृढसहभागितायाः कारणात् भारतस्य दत्तांशकेन्द्र तथा जीसीसी परिसंस्था तीव्रगत्या वर्धते। याः गतिविधयः पूर्वं केवलं बेङ्गलूरु, हैदराबाद तथा दिल्ली एनसीआर प्रदेशेषु सीमिताः आसन्, ताः अधुना तुमकुरु तथा मङ्गलूरु इत्यादिषु द्वितीयस्तरीयनगरेषु अपि विस्तृताः भवन्ति। अस्य अर्थः भविष्यति यत् अधिकानि रोजगारावसराः, उत्तमा दत्तांशसुरक्षा तथा स्थानीयार्थव्यवस्थानां प्रोत्साहनम् भविष्यति।
उल्लेखनीयम् अस्ति यत् भारतीय रिजर्ववित्तकोषेण ५ जून दिनाङ्के वित्तकोषेभ्यः त्रिवर्षात् पञ्चवर्षपर्यन्तकालस्य विदेशीयमुद्रा अनिवासी बैङ्क निक्षेपेषु स्वस्य मुद्राविनिमयस्य सुविधायाः उपयोगस्य अनुमतिः प्रदत्ता। तेन ते अमेरिकी डॉलर निक्षेपान् भारतीय रिजर्ववित्तकोषेण सह विनिमयं कृत्वा मुद्रासंकटस्य समुचितप्रबन्धनं कर्तुं शक्नुवन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani