Enter your Email Address to subscribe to our newsletters

-उत्तराखंडस्य सीमांत जिल्लाःज्ञास्यन्ति विभिन्नप्रांतानां युवानः
देहरादूनम्, 15 जूनमासः (हि.स.)।
मेरा युवा भारत माय भारत, युवा कार्यक्रम एवं खेल मन्त्रालय, आईटीबीपी तथा केन्द्रीय गृह मन्त्रालयस्य संयुक्ततत्त्वावधाने सीमाक्षेत्राणां समग्रविकासाय युवकेषु राष्ट्रनिर्माणस्य भावनां सुदृढां कर्तुं विकसित भारत वाइब्रेंट विलेज फेज २ कार्यक्रमस्य शुभारम्भः कृतः अस्ति। द्वितीयचरणे ११५ युवा प्रतिभागिनः सम्मिलिताः सन्ति, ये विभिन्नराज्यानां संस्कृतेः, परम्पराणां तथा जीवनशैल्याः झलकं सीमाक्षेत्रेषु प्रस्तोष्यन्ति।
द्वितीयचरणे गोवा, मेघालय, अरुणाचल प्रदेश, हिमाचल प्रदेश, उड़ीसा, मणिपुर, तेलंगाना, जम्मू कश्मीर इत्यादिभ्यः आगताः युवा प्रतिभागिनः कार्यक्रमस्य भागाः अभवन्। एतेभ्यः युवकेभ्यः सीमाक्षेत्राणां सामाजिकसांस्कृतिकविकासात्मकपरिस्थितीनां समीपतः ज्ञातुं अवगन्तुं च अवसरः प्राप्तः भविष्यति।
कार्यक्रमस्य अन्तर्गतं कुलतः १३ सीमाग्रामाणां चयनं कृतम् अस्ति। प्रत्येकस्मिन् ग्रामे ७ तः ८ प्रतिभागिनां समूहः प्रवासं करिष्यति। प्रत्येकेन समूहेन सह एकः जिला युवा अधिकारी, एकः स्वयंसेवकः च मार्गदर्शनाय समन्वयाय च उपस्थितौ भविष्यतः।
प्रतिभागिनः ग्रामेषु जनजागरूकता, सामुदायिकसंवाद तथा विकासोन्मुखक्रियाकलापेषु सक्रियरूपेण सहभागिता करिष्यन्ति। सहैव ते स्थानीययुवकैः ग्रामीणैः च सह संवादं स्थापयित्वा तेषां अनुभवान्, चुनौतयः तथा विकाससम्बद्धाः आवश्यकताः ज्ञास्यन्ति।
कार्यक्रमस्य आरम्भः १४ जून दिनाङ्के देहरादूनस्थिते केनोपी होटले प्रतिभागिनां प्रतिवेदनसमर्पणेन अभवत्। प्रतिवेदनस्य अनन्तरं भारत तिब्बत सीमा पुलिस आईटीबीपी अधिकारिभिः प्रतिभागिनः कार्यक्रमस्य अवधारणया, उद्देशैः तथा महत्त्वेन परिचिताः कृताः। सहैव आईटीबीपी शिविरे प्रवासकालस्य सुरक्षा, अनुशासन तथा आवश्यकसावधानतासम्बद्धानि निर्देशाः अपि प्रदत्ताः।
देहरादून शिविरे सर्वेषां प्रतिभागिनां स्वास्थ्यपरीक्षणं कृतम्, यस्मिन् सर्वे प्रतिभागिनः स्वस्थाः प्राप्ताः। ततः अनन्तरम् अद्य प्रतिभागिनां एकः दलः उत्तरकाशी तथा अपरः दलः चमोली जनपदाय प्रेषितः। प्रतिभागिनः २१ जून पर्यन्तं सीमाग्रामेषु प्रवासं करिष्यन्ति।
अस्मिन् अवसरे माय भारत देहरादूनस्य उपनिदेशिका मोनिका नांदल तथा भारत तिब्बत सीमा पुलिस आईटीबीपी इत्यस्य डिप्टी कमांडेंट उज्जवल अपि उपस्थितौ आस्ताम्। उभौ अधिकारिणौ प्रतिभागिभिः सह संवादं कृत्वा तान् कार्यक्रमस्य उद्देश्येषु, सीमाक्षेत्राणां महत्त्वे तथा राष्ट्रनिर्माणे यूनां भूमिकायां प्रति प्रेरितवन्तौ तथा सफलसहभागितायै शुभकामनाः दत्तवन्तौ।
Hindusthan Samachar / Dheeraj Maithani