Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 जूनमासः (हि.स.)।
भारतीयस्य प्राचीनायाः आयुर्वेदिकज्ञानसम्पदः संरक्षणार्थं नूतना पहल आरब्धा अस्ति। अस्याः अन्तर्गतं तिगलारी तथा प्राचीनकन्नडलिपिषु लिखितानाम् आयुर्वेदस्य दुर्लभपाण्डुलिपीनां पठनं तासां च आधुनिकलिप्यन्तरणस्य कार्यम् आरब्धम् अस्ति।
अस्मिन् दिशि आयुर्वेदिकविज्ञानानुसन्धानकेन्द्रीयपरिषद् तथा केन्द्रीयसंस्कृतविश्वविद्यालयेन संयुक्तरूपेण श्रीवादीराजा रिसर्च फाउण्डेशनस्य सहयोगेन पञ्चदशदिवसीया कार्यशाला आयोजिता अस्ति।
कार्यशालायाः उद्देश्यं तेषां प्राचीनानाम् आयुर्वेदग्रन्थानां संरक्षणम् अस्ति ये अद्यापि प्रकाशिताः न सन्ति। प्रशिक्षणकालस्य अन्तर्गतं विशेषज्ञाः युवा अनुसन्धानकर्तृभ्यः एतासां पाण्डुलिपीनां पठनार्थं बोधनार्थं तथा प्रकाशनयोग्यरूपेण सिद्धीकरणार्थं सहायता करिष्यन्ति।
सोमवासरे आयुर्वेदिकविज्ञानानुसन्धानकेन्द्रीयपरिषदः महानिदेशकः प्रो वैद्य रबिनारायण आचार्यः माध्यमान् प्रति उक्तवान् यत् भारतसर्वकारः देशस्य पारम्परिकज्ञानविरासतां संरक्षितुं संवर्धयितुं च निरन्तरं प्रयत्नान् करोति।
कार्यशालायां सिद्धीकृताः पाण्डुलिपयः अनन्तरं प्रकाशिताः भविष्यन्ति येन आयुर्वेदसम्बद्धं एतत् बहुमूल्यं ज्ञानं अधिकाधिकजनान् प्रति प्राप्स्यति।
उल्लेखनीयम् अस्ति यत् तिगलारी तथा प्राचीनकन्नडलिपिषु लिखिताः आयुर्वेदपाण्डुलिपयः मुख्यतया कर्नाटकस्य तटीयप्रदेशेषु प्राप्यन्ते। आयुर्वेदिकविज्ञानानुसन्धानकेन्द्रीयपरिषद् तथा केन्द्रीयसंस्कृतविश्वविद्यालयेन आयोजितेयं तृतीया संयुक्तकार्यशाला अस्ति।
अस्मात् पूर्वं ओडिशायाः पुरीनगरे करणी देवनागरीलिप्योः तथा केरलस्य वट्टेजुत्तु मलयालमलिप्योः केन्द्रिताः कार्यशालाः आयोजिताः आसन्।
कार्यशालाकाले सिद्धीकृताः लिप्यन्तरितग्रन्थाः अनन्तरं आयुर्वेदिकविज्ञानानुसन्धानकेन्द्रीयपरिषद् तथा केन्द्रीयसंस्कृतविश्वविद्यालयेन प्रकाशिताः भविष्यन्ति। तेन भारतस्य प्राचीनायाः आयुर्वेदिकज्ञानसम्पदः संरक्षणे व्यापकस्तरे उपलब्धतायां च सहायता भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani