Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ जूनमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र-मोदी-महोदयेन सोमवासरे अमेरिका-ईरान-देशयोः मध्ये पश्चिम-एशियायां प्रवर्तमानं सङ्घर्षं समापितुं सम्पन्नायाः सहमतेः स्वागतं कृतम्। तेन उक्तं यत् भारतं आशास्ते यत् अस्य सन्धे: प्रभावी-कार्यान्वयनेन क्षेत्रे शान्तिः स्थैर्यं च पुनः स्थापितं भविष्यति तथा वैश्विक-वाणिज्यस्य नौवहन-स्वातन्त्र्यस्य च सुनिश्चितता भविष्यति।
प्रधानमन्त्री मोदी-महोदयः सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र उक्तवान् यत् पश्चिम-एशियायां प्रवर्तमान-सङ्घर्षस्य कारणेन विश्वव्यापि गम्भीराः आर्थिक-व्यवधानाः उत्पन्नाः सन्ति तथा अनेकेषु देशेषु जनहानिरपि अभवत्। अतः अमेरिका-ईरान-देशयोः मध्ये सङ्घर्ष-समापनार्थं जातस्य अस्य सन्धे: सः स्वागतं करोति।
सः उक्तवान्— “भारतं आशास्ते यत् अस्य सन्धे: प्रभावी-कार्यान्वयनेन क्षेत्रे शान्तिः स्थैर्यं च पुनः स्थापितं भविष्यति तथा नौवहनस्य वाणिज्यस्य च स्वातन्त्र्यं सुनिश्चितं भविष्यति।”
प्रधानमन्त्री एतदपि उक्तवान् यत् अवशिष्ट-विषयेषु प्रवर्तमाना वार्ता स्थायिनम् अन्तिमं च समझौतं प्रति अग्रसरिष्यति, येन क्षेत्रे दीर्घकालिकी शान्तिः स्थापयितुं शक्यते।
प्रधानमन्त्रिणः एषा प्रतिक्रिया तस्मिन् समये आगता यदा वार्ताः प्रादुरभवन् यत् अमेरिका-ईरान-देशौ युद्ध-समापनाय, सामरिक-दृष्ट्या महत्त्वपूर्णस्य होर्मुज-जलडमरूमध्यस्य पुनरुद्घाटनाय तथा तेहरानस्य परमाणु-कार्यक्रम-विषये पुनः वार्तारम्भाय प्रारूप-रूपरेखायां सहमतिं प्राप्तवन्तौ।
Hindusthan Samachar / Divya Ranjan