मध्यप्रदेशः- परिषदीपरीक्षायाः प्रदेशे प्रथमायाः चांदन्याः गृहं प्राप्नोत् मुख्यमंत्री डॉ. यादवः, भोपालस्य भीमनगरे कृतो जनसंवादः
भोपालम्, 15 जूनमासः (हि.स.)। मध्य प्रदेशपरिषदो द्वादशकक्षायाः परीक्षायां ५०० अङ्केषु ५०० अङ्कान् प्राप्त्य सम्पूर्णप्रदेशे प्रथमस्थानं प्राप्तवत्याः छात्रायाः चांदनी विश्वकर्मा इत्यस्याः मिलनार्थं मुख्यमन्त्री डॉ मोहन यादवः सोमवासरे आकस्मिकरूपेण भ
मप्र बोर्ड की स्टेट टॉपर चांदनी के घर पहुंचे मुख्यमंत्री डॉ. यादव


भोपालम्, 15 जूनमासः (हि.स.)।

मध्य प्रदेशपरिषदो द्वादशकक्षायाः परीक्षायां ५०० अङ्केषु ५०० अङ्कान् प्राप्त्य सम्पूर्णप्रदेशे प्रथमस्थानं प्राप्तवत्याः छात्रायाः चांदनी विश्वकर्मा इत्यस्याः मिलनार्थं मुख्यमन्त्री डॉ मोहन यादवः सोमवासरे आकस्मिकरूपेण भोपालस्य भीमनगर क्षेत्रं प्राप्नोत्।

झुग्गीबस्तेः संकीर्णमार्गेषु ई व्हीकल द्वारा आगत्य मुख्यमन्त्री चांदनी तथा तस्याः परिवारस्य सह मिलित्वा केवलं अभिनन्दनं न कृतवान्, अपि तु तस्याः उज्ज्वलभविष्याय सर्वसम्भवसहायायाः आश्वासनमपि दत्तवान्। मुख्यमन्त्री डॉ मोहन यादव भीमनगर क्षेत्रे जनसंवाद कार्यक्रमस्य अन्तर्गतं आगतवान् आसीत्। अस्मिन् समये सः स्थानीयनागरिकैः सह चर्चा कृत्वा क्षेत्रस्य समस्याणां विषये जानकारीं प्राप्तवान्।

मुख्यमन्त्री डॉ मोहन यादवो भीमनगरस्थिते चांदनीस्याः एककक्षयुक्ते कच्चगृहे गत्वा तया सह आत्मीयसंवादम् अकरोत्। सः चांदनी तथा तस्याः परिजनैः सह समयं व्यतीतवान्, परिवारस्य सह सेल्फी चित्रं गृहीतवान् तथा तस्याः अद्वितीयसफलतायै शुभकामनाः दत्तवान्।

मुख्यमन्त्री उक्तवान् यत् कठिनपरिस्थितिषु सीमितसंसाधनेषु च अपि चांदनी या लग्नेन, परिश्रमेण दृढसंकल्पेन च एतां उपलब्धिं प्राप्तवती, सा प्रदेशस्य लक्षशः विद्यार्थिनां कृते प्रेरणास्रोतः अस्ति।

चांदन्याः पारिवारिकपरिस्थितीनां ज्ञात्वा मुख्यमन्त्री तस्याः गृहस्थितेः विषये चिन्तां व्यक्तवान्। सः परिवाराय आश्वासनं दत्तवान् यत् नवीनगृहस्य निर्माणं कारयिष्यते अथवा वर्तमानगृहस्य उत्तममरम्मतं कारयिष्यते, येन परिवारस्य निवासे कापि समस्या न भवेत्।

मुख्यमन्त्री उक्तवान् यत् एतादृशीनां प्रतिभानां अग्रे प्रेषणं सरकारस्य दायित्वम् अस्ति। चांदनीस्याः अध्ययनस्य भविष्यस्य च विषये सरकारः सर्वसम्भवं सहयोगं करिष्यति।

भारतीय सेनायां लेफ्टिनेंट पदं प्राप्य देशसेवां कर्तुं स्वप्नं धारयन्ती प्रदेशस्य शीर्षस्थ छात्रा चांदनी विश्वकर्मा अवदत् यत् तस्याः स्वप्नम् भारतीय सेनायां लेफ्टिनेंट भूत्वा राष्ट्रसेवा कर्तुम् अस्ति। मुख्यमन्त्रिणा सह मिलनस्य विषये सा हर्षं व्यक्तवती तथा उक्तवती यत् मया कदापि कल्पना न कृता आसीत् यत् मुख्यमन्त्री स्वयं मम गृहं आगमिष्यति। एषः मम जीवनस्य अत्यन्तं स्मरणीयः क्षणः अस्ति। तेन मम विश्वासः दत्तः यत् अग्रिमाध्ययनस्य चिन्ता कर्तुं आवश्यकता नास्ति, सरकारः मम सह स्थितवती अस्ति।

परिवारस्य सदस्यैः मुख्यमन्त्रिणः समक्षं स्वकीयाः आर्थिकाः आवासीयाः च समस्याः प्रस्तुताः। तैः उक्तं यत् सम्पूर्णः परिवारः एकस्मिन् लघुकक्षे निवसति, येन बहवः कष्टाः अनुभूयन्ते। परिजनैः उक्तं यत् वयं मुख्यमन्त्रिणे स्वकीयाः समस्याः निवेदितवन्तः। तेन अस्माकं वचनं गम्भीरतया श्रुत्वा सर्वसम्भवसहायायाः आश्वासनं दत्तम्।

---------------

Hindusthan Samachar / Dheeraj Maithani