केन्द्रीयमन्त्री अन्नपूर्णा देवी अद्य इन्दौर-नगरे महिला-बाल-विकास-योजनानां समीक्षां करिष्यति
इन्दौरनगरम्, १५ जूनमासः (हि.स.)। केन्द्रीय-महिला-तथा-बाल-विकासमन्त्री अन्नपूर्णा देवी अद्य सोमवासरे इन्दौरं प्रवासाय आगच्छति। सा अत्र विभागीय-योजनानां समीक्षां करिष्यति। तया सह महिला-तथा-बाल-विकास-राज्यमन्त्री सावित्रीठाकुर: अपि उपस्थिता भविष्यति।
केंद्रीय मंत्री अन्नपूर्णा देवी (फाइल फोटो)

इन्दौरनगरम्, १५ जूनमासः (हि.स.)। केन्द्रीय-महिला-तथा-बाल-विकासमन्त्री अन्नपूर्णा देवी अद्य सोमवासरे इन्दौरं प्रवासाय आगच्छति। सा अत्र विभागीय-योजनानां समीक्षां करिष्यति। तया सह महिला-तथा-बाल-विकास-राज्यमन्त्री सावित्रीठाकुर: अपि उपस्थिता भविष्यति।

प्रस्तावित-कार्यक्रमानुसारं उभौ मन्त्रिणौ इन्दौरनगरे स्थिते सावित्रीबाईफुले-राष्ट्रिय-महिला-तथा-बाल-विकास-संस्थानस्य पश्चिम-क्षेत्रीय-केन्द्रे, गोमटिगिरि-हातोद-मार्गे, गांधीनगर-प्रदेशे आयोजितायां समीक्षा-सभायां भागं ग्रहीष्यतः। एषा सभा प्रातः ९:०० वादनतः ११:३० वादनपर्यन्तं आयोजिता भविष्यति।

केन्द्रस्य सहायक-निदेशकः भवानीशंकर-साल्वी अवदत् यत् मन्त्रीद्वयेन सभायां महिला-तथा-बाल-विकास-मन्त्रालयेन सञ्चालितानां विभिन्नानां योजनानां कार्यक्रमाणां च प्रगतिः समीक्षिष्यते। तथा च अन्य-अभियानानां प्रमुख-कल्याणकारी-योजनानां प्रभावी-क्रियान्वयनविषये अपि चर्चा भविष्यति। सावित्रीबाई फुले राष्ट्रिय-महिला-तथा-बाल-विकास-संस्थानस्य पश्चिम-क्षेत्रीय-केन्द्रे आयोजितायां अस्यां महत्त्वपूर्णायां सभायां विभागीय-अधिकारिणां सम्बद्ध-हितधारकाणां च सहभागिता भविष्यति।

Hindusthan Samachar / Divya Ranjan