राष्ट्रपतिर्मुर्मुः पारंपरिकाणां मिनिएचर कलाशैलीनां कलाकारैस्सह मेलनं कृतम्
नव दिल्ली, 15 जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुस्सोमवासरे राष्ट्रपतिभवने भारतस्य परम्परागतलघुचित्रकलाशैलीनां कलाकाराणां समूहेन सह मिलित्वा तेषां कार्यं दृष्टवती। राष्ट्रपतिसचिवालयस्य अनुसारेण राष्ट्रपतिभवनस्य आर्टिस्ट इन रेसिडेन्स कार्
राष्ट्रपति द्रौपदी मुर्मु के साथ अन्य लोग मौजूद।


नव दिल्ली, 15 जूनमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मुस्सोमवासरे राष्ट्रपतिभवने भारतस्य परम्परागतलघुचित्रकलाशैलीनां कलाकाराणां समूहेन सह मिलित्वा तेषां कार्यं दृष्टवती।

राष्ट्रपतिसचिवालयस्य अनुसारेण राष्ट्रपतिभवनस्य आर्टिस्ट इन रेसिडेन्स कार्यक्रमस्य अन्तर्गतं तत्र निवसन्तः एकादश कलाकाराः राजस्थानी इत्यादयः विभिन्नाः कलाशैलीः प्रदर्शितवन्तः। अस्मिन् एव अवसरे राष्ट्रपतिः द्रौपदी मुर्मुः अद्य एतेषां कलाकाराणां सह मिलित्वा तेषां कार्याणि दृष्टवती।

आर्टिस्ट इन रेसिडेन्सकार्यक्रमः भारतस्य कलात्मकपरम्पराणां भावनायाः उत्सवः अस्ति, यः सांस्कृतिकपरिचयस्य संरक्षणे तथा आगामिसन्ततीनां प्रेरणायां जीवितकलापरम्पराणाम् महत्त्वपूर्णां भूमिकां पुनः रेखाङ्कयति।

---------------

Hindusthan Samachar / Dheeraj Maithani