Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, १५ जूनमासः (हि.स.)। केन्दुझर-जनपदे प्रचलितस्य ‘विशेष-गहन-पुनरीक्षण-२०२६’ (एसआईआर-२०२६) अभियानस्य तदा विशेषं बलं प्राप्तम्, यदा ओडिशा-राज्यस्य मुख्यमन्त्री मोहनचरण-माझी-महोदयः स्वयमेव अस्मिन् अभियाने सहभागित्वं कृत्वा मतदाता-सूची-संशोधनार्थं निर्धारितं गणना-प्रपत्रं पूरितवान्।
मुख्यमन्त्रिणा स्वस्य पैतृक-ग्रामे रायकला-स्थिते निवासे तत् प्रपत्रं पूरयित्वा मतदाता-सूच्याः शुद्धीकरण-अद्यतनीकरण-प्रक्रियायां सक्रिय-सहभागिता प्रदर्शिता। रायकला-मतदान-केन्द्रस्य सम्बद्धेन मतदान-स्तरीय-अधिकारिणा तस्मै तत् प्रपत्रम् उपलब्धं कारितम्।
अस्मिन् अवसरे केन्दुझर-जनपदस्य जनपदाधिकारी तथा जनपद-निर्वाचन-अधिकारी विशाल-सिंह-महोदयः अपि उपस्थितः आसीत्। तस्य पर्यवेक्षणे सम्पूर्णा प्रक्रिया सुचारुरूपेण सम्पन्ना।
मुख्यमन्त्रिणः एषा सहभागिता लोकतान्त्रिक-प्रक्रियां प्रति जन-जागरूकता-वर्धनस्य दिशि महत्त्वपूर्ण: प्रयत्न: इति मन्यते। अनेन सामान्य-नागरिकान् स्वीयान् मतदाता-विवरणान् सम्यक् अद्यतनांश्च कर्तुं प्रेरणां प्राप्स्यन्ति तथा मतदाता-सूच्याः त्रुटिरहितीकरण-अभियानं अधिकं गतिं प्राप्स्यति।
मुख्यमन्त्रिणा सर्वेभ्यः पात्र-मतदातृभ्यः आह्वानं कृतं यत् ते विशेष-गहन-पुनरीक्षण-अभियाने सक्रियतया भागं गृह्णीयुः तथा मतदाता-सूच्यां प्रविष्टानां स्वविवरणानां सत्यापनं आवश्यक-संशोधनं च कारयेयुः। तेन उक्तं यत् स्वच्छा, सटीकता, त्रुटिरहिता च मतदाता-सूची सुदृढ-लोकतन्त्रस्य आधारशिला अस्ति।
जनपद-प्रशासनेन अपि जनपदस्य सर्वेभ्यः योग्य-मतदातृभ्यः अस्मिन् अभियाने सहयोगस्य आह्वानं कृतम्। सहैव गृहं गृहं गत्वा सूचनाः सङ्गृह्णद्भ्यः बीएलओ-अधिकारिभ्यः आवश्यक-सहयोगं प्रदातुम् अनुरोधः कृतः, येन मतदाता-सूची पूर्णतया अद्यतना पारदर्शिनी च निर्मातुं शक्येत।
Hindusthan Samachar / Divya Ranjan