प्रधानमंत्री मोदी नवाचारस्य उद्यमितायां च विविधतामहत्वमकरोत् रेखांकितम्
नव दिल्ली, 15 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य संस्कृतसुभाषितं साझा कृत्वा नवाचारस्य उद्यमितायाश्च क्षेत्रे विविधविचाराणां प्रतिभानां रचनात्मकदृष्टिकोणानां च महत्त्वपूर्णां भूमिकां प्रकाशयामास। तेन उक्तं यत् प्रत्येकस्य जनस्य चिन
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नव दिल्ली, 15 जूनमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी अद्य संस्कृतसुभाषितं साझा कृत्वा नवाचारस्य उद्यमितायाश्च क्षेत्रे विविधविचाराणां प्रतिभानां रचनात्मकदृष्टिकोणानां च महत्त्वपूर्णां भूमिकां प्रकाशयामास। तेन उक्तं यत् प्रत्येकस्य जनस्य चिन्तनं कार्यशैली च भिन्ना भवति तथा च एषा एव विविधता नवीनविचाराणां सम्भावनानां च जननी भवति।

प्रधानमन्त्री एक्स माध्यमे स्वसन्देशे उक्तवान् यथा विभिन्नस्रोतसां जलस्य स्वादः भिन्नः भवति तथैव प्रत्येकस्य जनस्य प्रतिभा दृष्टिः योगदानं च विशिष्टं भवति। तेन उक्तं यत् विविधविचाराणां क्षमतानां च सङ्गमेन एव नवाचारस्य उद्यमितायाः प्रगतेश्च मार्गः प्रशस्तः भवति।

अस्मिन् अवसरे प्रधानमन्त्री संस्कृतस्य एकं सुभाषितं सह कृतवान्

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जाते जाते नवाचाराः नवा वाणी मुखे मुखे॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् प्रत्येकस्य जनस्य चिन्तनं रचनात्मकदृष्टिश्च भिन्ना भवति तथा च एषा भिन्नता नवाचारस्य महती शक्तिः अस्ति। समाजे विद्यमानाः विविधाः प्रतिभाः विचाराश्च मिलित्वा विकासाय प्रगत्यै च नूतनां दिशां ददति।

प्रधानमन्त्री उक्तवान् यत् भारतस्य नवाचारसंस्कृतिरपि अस्याः एव भावनायाः आधारेण प्रतिष्ठिता अस्ति यत्र भिन्नभिन्नपृष्ठभूमीनां अनुभवानां च जनाः स्वविचारैः स्वक्षमताभिश्च राष्ट्रनिर्माणे योगदानं कुर्वन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani