Enter your Email Address to subscribe to our newsletters

पश्चिमवर्धमाननगरम्, जूनमासस्य १५ दिनाङ्कः (हि.स.)। राज्ये उद्योग-निवेशयोः वातावरणं सुदृढं कर्तुम् उद्दिश्य रविवासरस्य सायंकाले दुर्गापुरस्य सिटी-सेन्टर-क्षेत्रे स्थिते एकस्मिन् निजी-आतिथ्यगृहे सप्त-जनपदानां उद्योगपतिभिः उद्यमिभिश्च सह पूर्व-वित्तविवरण-परामर्श-सभा आयोजिता। सभायाम् नगर-विकास-मन्त्री अग्निमित्रा-पालः, वित्तमन्त्री स्वपन-दासगुप्तः तथा वित्त-विभागस्य अपर-मुख्यसचिवः प्रभाकर-कुमार-मिश्रः विशेषरूपेण उपस्थिताः आसन्।
सभायाम् आसनसोल, दुर्गापुर, बाङ्कुडा, पुरुलिया, बीरभूम-इत्यादिभ्यः सप्त-जनपदेभ्यः उद्योग-सङ्घटनानां, वाणिज्य-मण्डलस्य प्रतिनिधीनां तथा उद्यमिनां सहभागिता अभवत्। अस्मिन् अवसरे उद्योग-क्षेत्रे सम्बद्धाः जनाः स्वीयाः समस्याः, निवेशसम्बद्धाः समस्याः तथा उद्योग-स्थापन-प्रक्रियां सरलीकर्तुं विविधान् विचारान् प्रस्तुतवन्तः।
नगर-विकास-मन्त्री अग्निमित्रा-पालः अवदत् यत् पूर्वतन-सर्वकारस्य काले उद्योगपतिभिः वर्षानुवर्षं विविध-शासकीय-विभागानां परिभ्रमणं कर्तव्यं जातम्, किन्तु तेषां समस्याः न समाधातुं शक्यन्ते स्म। तया आरोपितं यत् अनेकासु घटनासु व्यवसायिभ्यः उत्कोचः गृहीत्वापि कार्याणि न सम्पन्नानि, येन राज्यस्य औद्योगिकी-प्रतिमा प्रभाविताभवत्।
सा अवदत् यत् वर्तमान-सर्वकारः उद्योगानां कृते पारदर्शिनीं शीघ्रगतियुक्तां च व्यवस्थां निर्मातुं प्रतिबद्धः अस्ति। उद्योग-स्थापनस्य प्रक्रियां सरलां कर्तुं तथा एक-द्वार-प्रणाल्याः माध्यमेन शीघ्रसेवाः प्रदातुं आश्वासनम् अपि दत्तम्।
वित्तमन्त्री स्वपन-दासगुप्तः अपि पूर्वतन-सर्वकारं लक्ष्यीकृत्य अवदत् यत् आधारभूत-संरचनायाः विकासे पर्याप्तं ध्यानं न दत्तम्, येन निवेशः प्रभावितः। तेन उक्तं यत् अनेक-औद्योगिक-क्षेत्राणां मार्गाः जीर्णावस्थायां सन्ति तथा मूलभूत-सुविधानाम् अभावात् रोजगार-अवसराः अपि न्यूनाः अभवन्। अस्य परिणामस्वरूपं बहुसंख्याकाः युवानः श्रमिकाश्च रोजगारस्य अन्वेषणार्थम् अन्य-राज्यानि गन्तुं विवशाः भवन्ति।
सः अवदत् यत् वर्तमान-सर्वकारः उद्योगानुकूलं वातावरणं निर्मातुं, भूमिसम्बद्ध-समस्याः समाधातुं तथा नवीन-निवेशान् आकर्षयितुं दिशि कार्यं करोति। तेन सह उद्योगः, रोजगारः तथा आधारभूत-संरचनायाः विकासः सर्वोच्च-प्राथमिकतायां स्थापितः इति अपि प्रतिपादितम्।
सभायां एतदपि उक्तं यत् आसनसोल-दुर्गापुर-क्षेत्रस्य निरुद्धाः निर्माण्यः पुनः प्रवर्तयितुं प्रयत्नाः क्रियन्ते। एतदतिरिक्तं दुर्गापुर-बैराजस्य विकल्परूपेण अन्यस्य बैराजस्य निर्माण-प्रस्तावः अपि विचाराधीनः अस्ति।
Hindusthan Samachar / Divya Ranjan