Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगरम्, १५ जूनमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधान-महोदयेन स्वस्य मन्त्रिमण्डलीय-सहयोगिने तथा केन्द्रीय-कोयला-खनिज-मन्त्रिणे जी.किशन-रेड्डी-महोदयाय जन्मदिनस्य हार्दिक-शुभकामनाः प्रदत्ताः।
सामाजिक-माध्यमेषु प्रकाशिते स्वसन्देशे धर्मेन्द्र-प्रधान-महोदयः उक्तवान् यत् सः जी.किशन-रेड्डी-महोदयस्य उत्तम-स्वास्थ्याय, सुख-समृद्धये तथा राष्ट्रसेवायै निरन्तर-ऊर्जायै समर्पणाय च शुभकामनाः प्रयच्छति।
सः भगवान् वेङ्कटेश्वरं प्रति प्रार्थनां कृत्वा उक्तवान् यत् श्री-रेड्डी-महोदयः स्वस्थः, प्रसन्नः च भूत्वा राष्ट्रस्य सेवायां निरन्तरं योगदानं ददातु। केन्द्रीयमन्त्रिणा स्वसन्देशे तस्मै जन्मदिन-शुभकामनाः प्रदत्ताः तथा उज्ज्वल-भविष्याय अपि मङ्गलकामनाः व्यक्ताः।
Hindusthan Samachar / Divya Ranjan