Enter your Email Address to subscribe to our newsletters

जम्मूः, 15 जूनमासः (हि.स.)। 3
जुलाईमासात् प्रारभ्यमाणायाः सप्तपञ्चाशत् दिनात्मकायाः वार्षिक अमरनाथ यात्रायाः पूर्वं अनेकाः साधवः आध्यात्मिक साधकाः च पुरातननगरे स्थितं राममन्दिरं प्राप्तुं तत्र निवासं कर्तुं च आरब्धवन्तः। एतत् मन्दिरं यात्रायाः प्रारम्भात् पूर्वं एकं प्रमुखं विश्रामकेन्द्रम् अस्ति। यात्रायाः आधिकारिक आरम्भात् अनेकसप्ताहपूर्वमेव मन्दिरे साधूनां आगमनगमनं प्रारब्धम् अस्ति। ते दक्षिण कश्मीर हिमालये त्रिसहस्र अष्टशत् अशीतिमितर उन्नते गुहामन्दिरे यात्रायाः सिद्धिं कुर्वन्तः स्वकालं प्रार्थनायां धार्मिक चर्चायां सेवायां च यापयन्ति।
तैः प्रतिदिनं मन्दिरे भजनानि गीयन्ते तथा च बम बम भोले इति जयघोषाः वातावरणं भक्तिमयं कुर्वन्ति। अयोध्यानगरस्य साधुः अमर दास उक्तवान् यत् सः मन्दिरे निवसतां सहसन्तानां सेवां कर्तुं यात्रायाः मासार्धपूर्वमेव आगतः आसीत्। तेन उक्तं यत् अहं सन्तानां भगवतः भक्तानां च सेवां करोमि तथा पाकशालायाः भोजनपानादि व्यवस्थायाः सञ्चालनार्थम् अपि साहाय्यं करोमि।
अमर दासः यः द्विसहस्र चतुर्दश वर्षात् अमरनाथ यात्रां करोति सः उक्तवान् यत् राममन्दिरे सन्तानां तीर्थयात्रिणां च सेवया तस्मै महान् आनन्दः प्राप्यते। गतवर्षे तस्य पक्षाघातः अभवत्। तेन उक्तं यत् मया महादेवं प्रति प्रार्थना कृता यत् हे प्रभो कृपया भवतः दर्शनस्य अन्तिमम् अवसरं मह्यं ददातु। वैद्यानां परामर्शस्य अपि अनन्तरं मया यात्रा पूर्णा कृता तथा अनेकषु सामुदायिक पाकशालासु सेवा कृता।
हिमाचल प्रदेशस्य गणेश पुरी उक्तवान् यत् सः त्रिदशकाधिककालात् एतां यात्रां करोति। तेन उक्तं यत् अस्मिन् वर्षे दृढ सुरक्षा व्यवस्थया सर्वेषां सहयोगेन च एषा तीर्थयात्रा अत्यन्तं सफलाः भविष्यति। सुविधानां कापि न्यूनता न भविष्यति, काचित् महती कठिनता न आगमिष्यति तथा भयस्य कापि आवश्यकता न भविष्यति।
तेन अग्रे उक्तं यत् वयं प्रार्थयामः यत् सर्वेषां तीर्थयात्रा शुभा भवेत् मार्गे च कस्यापि जनस्य कस्यापि अवरोधस्य, कष्टस्य वा समस्यायाः सामना न भवेत्।
छत्तीसगढ प्रदेशस्य साध्वी बृहस्पति गिरी उक्तवती यत् एषा तस्याः प्रथम अमरनाथ यात्रा अस्ति। तया उक्तं यत् भगवतः कृपया तस्य आह्वानेन च एव अहम् अत्र आगन्तुं शक्नोमि।
ब्रह्मचारी पार्थ देव उक्तवान् यत् सः सम्पूर्ण भारतस्य यात्रां कुर्वन् आसीत् तथा तस्मै अमरनाथ यात्रां कर्तुं आध्यात्मिकी प्रेरणा प्राप्ता। तेन उक्तं यत् यदा भगवान् शिवः अस्माभिः सह सन्ति तदा कस्यापि प्रकारस्य भयस्य चिन्तायाः वा स्थानं न भवति। सन्तः साधवः च भयेन जीवनं न यापयन्ति।
साधुना उक्तं यत् ते सर्वेषां जीवेषु कल्याणाय प्रार्थनां कुर्वन्ति तथा सर्वे सुखिनः स्वस्थाः दुःखमुक्ताः च भवन्तु इति कामनां कुर्वन्ति। तेन उक्तं यत् तस्य प्रार्थना सर्वेषां जनानां पशूनां अन्येषां जीवाना च कृते शान्तेः समृद्धेः सद्भावस्य च भवति।
राममन्दिरे निवसत्सु जनषु तमिलनाडु प्रदेशस्य भैरवः अपि समाविष्टः अस्ति, येन एषा तीर्थयात्रा अत्यन्त आनन्दप्रदा अनुभूति इति वर्णिता। तेन उक्तं यत् सर्वं अत्युत्तमं भव्यं हर्षपूर्णं च अस्ति। बाबा अमरनाथस्य दर्शनस्य अवसरः वास्तवतः आनन्दमयः अनुभवः अस्ति।
भैरवः उक्तवान् यत् सः स्वां तीर्थयात्रां अनेक मासपूर्वमेव आरभते तथा जम्मू नगरं प्राप्तुं पूर्वं अनेकानि प्रमुख धार्मिक स्थलानि यात्रां करोति। तेन उक्तं यत् अत्र आगमनात् पूर्वं मया चतुर्धाम यात्रां सम्पन्ना कृता तथा काशी, अयोध्या, गङ्गा, शिवखोडी तथा वैष्णो देवी इत्येषां दर्शनानि कृतानि।
एतत् मन्दिरं परम्परया अमरनाथ यात्रायाः पूर्वं देशस्य विभिन्न भागेभ्यः आगच्छतां साधूनां कृते एकः महत्त्वपूर्णः विश्रामस्थलम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani