सुपौल-जनपदे आरब्धं पीएम-सूर्यगृह-निःशुल्क-विद्युत्-योजनायाः कार्यम्, ७१५४ बीपीएल-परिवाराणां गृहेषु निःशुल्क-सौरपट्टिकाः स्थाप्यन्ते
सुपौलनगरम्, जूनमासस्य १५ दिनाङ्कः (हि.स.)। जनपदे निर्धन-परिवारेभ्यः स्वच्छां सुलभां च ऊर्जां प्रदातुं दिशि एकः महत्त्वपूर्णः प्रयत्नः आरब्धः अस्ति। प्रधानमन्त्री-सूर्यगृह-निःशुल्क-विद्युत्-योजनायाः अन्तर्गतं सुपौल-जनपदस्य ७१५४ बीपीएल-परिवाराणां गृह
Yojana


Yojana


सुपौलनगरम्, जूनमासस्य १५ दिनाङ्कः (हि.स.)। जनपदे निर्धन-परिवारेभ्यः स्वच्छां सुलभां च ऊर्जां प्रदातुं दिशि एकः महत्त्वपूर्णः प्रयत्नः आरब्धः अस्ति। प्रधानमन्त्री-सूर्यगृह-निःशुल्क-विद्युत्-योजनायाः अन्तर्गतं सुपौल-जनपदस्य ७१५४ बीपीएल-परिवाराणां गृहेषु छदिषु १.१ किलोवाट-क्षमतायुक्तानि सौर-ऊर्जा-संयन्त्राणि स्थाप्यन्ते। अस्याः योजनायाः शुभारम्भः रविवासरे कृतः, येन सह जनपदे चरणबद्धरीत्या कार्यारम्भस्य प्रक्रिया अपि तीव्रा अभवत्।

पटना-नगरे स्थितात् विद्युत्-भवनात् आयोजितस्य राज्यस्तरीय-कार्यक्रमस्य समये १५१२ कोटि-रूप्यकाणां व्ययेन २.५ लक्ष-कुटीरज्योति-श्रेण्याः उपभोक्तृणां गृहेषु सौर-ऊर्जा-संयन्त्र-स्थापनकार्यस्य शुभारम्भः कृतः। तदनन्तरं ऊर्जा-क्षेत्रस्य १२७८ कोटि-रूप्यक-मूल्यानां विविध-परियोजनानां शिलान्यासः, उद्घाटनम् तथा लोकार्पणं च सम्पन्नम्।

सुपौल-समाहरणालयस्य लहटन-चौधरी-सभागारे कार्यक्रमस्य प्रत्यक्ष-प्रसारणम् अवलोकितम्, यस्मिन् जनप्रतिनिधयः, जनपद-प्रशासनस्य अधिकारिणः, विद्युत्-विभागस्य अभियन्तारः तथा लाभार्थिनः सहभागीभूताः। योजनायाः प्रथमचरणे सुपौलस्य सर्वेषां ११ प्रखण्डानां ५५ पञ्चायतानां चयनं कृतम् अस्ति।

एतेषु पञ्चायतेषु जीविका-दीदीनां साहाय्येन लाभार्थिनां सर्वेक्षणं तथा सम्मतिपत्र-ग्रहणस्य प्रक्रिया सम्पूर्णा कृता अस्ति। अधुना चयनित-परिवाराणां गृहेषु चरणबद्धरीत्या सौर-ऊर्जा-संयन्त्राणि स्थाप्यन्ते। १.१ किलोवाट-क्षमतायुक्तं प्रत्येकं सौर-ऊर्जा-संयन्त्रं प्रतिमासं प्रायः १२५ विद्युत्-एककपरिमितां विद्युत्-ऊर्जां उत्पादयितुं समर्थं भविष्यति। अनेन गृहस्य विद्युत्-आवश्यकताः पूरयितुं शक्यन्ते तथा विद्युत्-व्ययस्य भारोऽपि न्यूनः भविष्यति।

योजनायाः अन्तर्गतं सौर-पट्टिकानां स्थापनस्य सम्पूर्णं वित्तीय-प्रबन्धनं केन्द्र-सर्वकारस्य राज्य-सर्वकारस्य च सहयोगेन भविष्यति, यदा तु सुपौल-जनपदे अस्याः योजनायाः क्रियान्वयनस्य तथा दशवर्षपर्यन्तं परिपालनस्य दायित्वं मेसर्स ओसवाल पम्प्स लिमिटेड् इत्यस्यै संस्थायै समर्पितम् अस्ति।

किशनपुर-प्रखण्डस्य राजपुर-पञ्चायतात् अस्याः योजनायाः आरम्भः क्रियते, ततः परं अन्येषु चयनित-पञ्चायतेषु अपि कार्यं प्रवर्तिष्यते। प्रायः ६० सहस्र-रूप्यक-व्यययुक्ते प्रत्येकस्मिन् संयन्त्रे केन्द्र-सर्वकारः ३३ सहस्र-रूप्यकाणां तथा राज्य-सर्वकारः १० सहस्र-रूप्यकाणां अनुदानं दास्यति, अवशिष्टं धनं संस्था वहिष्यति। अस्याः योजनायाः उद्देश्यं निर्धन-परिवारान् ऊर्जा-क्षेत्रे आत्मनिर्भरान् कर्तुम्, विद्युत्-व्ययं न्यूनीकर्तुम् तथा स्वच्छ-ऊर्जायाः उपयोगं प्रोत्साहयितुं च अस्ति। जनपद-प्रशासनं विद्युत्-विभागश्च समयबद्धरीत्या अस्याः योजनायाः क्रियान्वयनाय कार्यं कुर्वन्ति।

Hindusthan Samachar / Divya Ranjan