यदि राष्ट्रं योगं करिष्यति तर्हि स्वस्थं निरोगं च भविष्यति तथा भविष्ये अयं देशः विश्वगुरुः भविष्यति - गा.दयाशंकरमिश्र:
वाराणसीनगरम्, १५ जूनमासः (हि.स.)। उत्तरप्रदेशस्य आयुष-मन्त्री दयाशंकरमिश्र‘दयालु’महोदयः सोमवासरे नमो-घट्टे योगाभ्यासं कृत्वा अन्ताराष्ट्रिय-योग-दिवस-२०२६ प्रति जन-जागरूकतां कृत्वा पत्रकारैः सह स्वसन्देशं प्रकटितवान्। मन्त्री महोदयः उक्तवान् यत् यद
डॉ दयाशंकर मिश्र


वाराणसीनगरम्, १५ जूनमासः (हि.स.)। उत्तरप्रदेशस्य आयुष-मन्त्री दयाशंकरमिश्र‘दयालु’महोदयः सोमवासरे नमो-घट्टे योगाभ्यासं कृत्वा अन्ताराष्ट्रिय-योग-दिवस-२०२६ प्रति जन-जागरूकतां कृत्वा पत्रकारैः सह स्वसन्देशं प्रकटितवान्।

मन्त्री महोदयः उक्तवान् यत् यदा देशः योगं करिष्यति तदा सः स्वस्थः निरोगश्च भविष्यति, तथा तदैव भविष्ये भारतं विश्वगुरुपदं प्राप्तुं समर्थं भविष्यति। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य नेतृत्वे योगः अद्य वैश्विक-जनान्दोलनरूपेण प्रतिष्ठितः अस्ति, येन भारतस्य प्राचीन-संस्कृतिः स्वस्थ-जीवनशैलीं च विश्वे नूतना ख्यातिं प्राप्तवती।

सः अपि उक्तवान् यत् योगः केवलं व्यायामः न, अपितु शरीर-मनसः आत्मनः च सन्तुलनस्य साधनम् अस्ति। अतः सर्वैः जनैः योगं स्वदैनिक-जीवने स्वीकृत्य स्वस्थ-सशक्त-भारत-निर्माणे योगदानं करणीयम् इति।

Hindusthan Samachar / Divya Ranjan