बिजनौरे 12तमस्य अंताराष्ट्रिय योग दिवसस्य शुभारंभः, अधिकारिणोऽकुर्वन् याेगाभ्यासम्
बिजनौरम्, 15 जूनमासः (हि.स.)। उत्तर प्रदेशस्य बिजनौर जनपदे सोमवासरे १२तमस्य अन्ताराष्ट्रिय योग दिवसस्य क्रमस्य अन्तर्गतं योगसप्ताहस्य शुभारम्भः कृतः। प्रथमदिने जनपदमुख्यालये, तहसीलस्तरे, खण्डस्तरे, ग्रामपञ्चायतस्तरे च योगसप्ताहस्य उद्घाटनं कृतम्।
योग करते हुए डीएम, सीडीओ, साकेन्द्र प्रताप


बिजनौरम्, 15 जूनमासः (हि.स.)। उत्तर प्रदेशस्य बिजनौर जनपदे सोमवासरे १२तमस्य अन्ताराष्ट्रिय योग दिवसस्य क्रमस्य अन्तर्गतं योगसप्ताहस्य शुभारम्भः कृतः। प्रथमदिने जनपदमुख्यालये, तहसीलस्तरे, खण्डस्तरे, ग्रामपञ्चायतस्तरे च योगसप्ताहस्य उद्घाटनं कृतम्।

जनपदस्तरीयकार्यक्रमस्य उद्घाटनं मुख्यातिथिः जिल्ला पंचायत अध्यक्ष चौ. साकेंद्र प्रताप सिंह तथा विशिष्टातिथिः ऐश्वर्य मौसम चौधरी वरिष्ठ भाजपा नेता च संयुक्तरूपेण फीता छित्वा दीपं प्रज्वाल्य च अकुरुताम्। प्रशांत महर्षिणा योगाभ्यास प्रोटोकॉल अन्तर्गतं सर्वेभ्यः योगाभ्यासः कारितः।

मुख्यातिथिः जिला पंचायत अध्यक्षयोगेन प्राप्यमाणानां लाभानां विषये कथयन् सामान्यजनान् प्रतिदिनं योगाभ्यासं कर्तुं प्रेरितवान्। अन्ते वृक्षारोपणं कृत्वा कार्यक्रमः सम्पन्नः कृतः। कार्यक्रमस्य सञ्चालनं डॉ विमल कुमारेण कृतम्।

कार्यक्रमे जिलाधिकारी जसजीत कौर, मुख्य विकास अधिकारी रणविजय सिंह, क्षेत्रीय आयुर्वेदिक अधिकारी डॉ राकेश कुमारो, जिला होम्योपैथिक चिकित्सा अधिकारी डॉ आरती गुप्ता, जिला क्रीड़ा अधिकारी राजकुमार सिंहो, जिला कार्यक्रम प्रबन्धक सुरेश कुमारः, आयुष तथा अन्यविभागानां अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्। कार्यक्रमे क्रीड़ा भारती, गोविंदा मॉर्निंग क्लब, गायत्री परिवार, आईएनओ तथा अन्यासां योगसंस्थानां सहयोगः अभवत्।

जिलाधिकारी योगाभ्यासे आगतान् सर्वान् लाभार्थिनः धन्यवादं दत्त्वा मङ्गलवासरे विदुर कुटी योगाभ्यास केन्द्रे प्रातः ६ वादने आरभ्य सामूहिक योगाभ्यास कार्यक्रमे सम्मेलितुं प्रार्थनाम् अकरोत्।--------------------

Hindusthan Samachar / Dheeraj Maithani