Enter your Email Address to subscribe to our newsletters

नोएडानगरम्, १५ जूनमासः (हि.स.)। नोएडा-अन्ताराष्ट्रिय-विमानपत्तन-निर्माणार्थं भूमिं प्रदत्तवद्भ्यः कृषकेभ्यः योगी-सर्वकारेण अद्य महत् उपहारः प्रदत्तः। सोमवासरे जेवर-विमानपत्तनात् आरब्धायाः प्रथम-विमान-सेवायाः माध्यमेन भूमिं प्रदत्तवन्तः १७० कृषकाः लखनऊनगरं नीताः, यत्र मुख्यमन्त्री योगी-आदित्यनाथ-महोदयः तैः सह संवादम् अकरोत्।
अद्य १५ जूनमासे नोएडा-विमानपत्तनात् विमान-सेवाः औपचारिकरूपेण प्रारब्धाः। निर्धारित-समयसारण्यानुसारं लखनऊनगरतः प्रथमा विमान-सेवा प्रातः ८:०५ वादने नोएडा-विमानपत्तनम् आगता, ततः अनन्तरं सा एव विमान-सेवा ८:३५ वादने बेङ्गलूरुनगरं प्रति प्रस्थितवती। अस्याः सेवायाः शुभारम्भः केन्द्रीय-नागरिक-विमानन-मन्त्रिणा के.राममोहन-नायडू-महोदयेन हरित-ध्वज-प्रदर्शनेन कृतः।
इण्डिगो-विमान-सेवायाः अन्यत् विमानम् अपि प्रातः नववादने लखनऊनगरं प्रति प्रस्थितम्। अस्याः १८०-आसनयुक्त-विमान-सेवायाः समय-निर्धारणं जेवर-विधायकस्य धीरेंद्र-सिंह-महोदयस्य अनुशंसया कृतम्। अस्मिन् विमाने विमानपत्तन-निर्माणार्थं भूमिं प्रदत्तवन्तः कृषकाः लखनऊनगरं नीताः।
अस्मिन् अवसरे जेवर-विधायकः धीरेंद्र-सिंह-महोदयः उक्तवान् यत् जेवर-विमानपत्तन-परियोजनार्थं नोएडा-क्षेत्रस्य बहुभिः कृषकैः सहस्रशः एकड-परिमिता भूमिः प्रदत्ता आसीत्। कृषकाणां भूमिदानस्य अनन्तरमेव जेवरे एशिया-खण्डस्य बृहत्तमेषु विमानपत्तनेषु एकं विमानपत्तनं निर्मातुं शक्यम् अभवत्।
तेन उक्तं यत् मुख्यमन्त्री योगी-आदित्यनाथ-महोदयः एतदर्थं पूर्वमेव कृषकेभ्यः धन्यवादं प्रदत्तवान्। सर्वकारस्य प्रशासनस्य च मतम् अस्ति यत् कृषकाणां सहयोगं विना एषा परियोजना सफलतां न प्राप्नुयात्। अत एव विमानपत्तनाय भूमिं प्रदत्तवतां कृषकाणां सम्मानार्थं तान् प्रथम-विमान-सेवया लखनऊनगरं प्रति नीतवन्तः।
Hindusthan Samachar / Divya Ranjan