Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १५ जूनमासः (हि. स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः सोमवासरे विश्व-वृद्धजन-दुर्व्यवहार-जागरूकता-दिवसस्य अवसरः प्रदेशवासिभ्यः पत्रं प्रेषितवान्।
मुख्यमन्त्री योगी-आदित्यनाथः पत्रे लिखितवान् यत्— “मम सम्मानिताः प्रदेशवासिनः, अद्य गृहेषु शून्यता वर्धते, वृद्धाश्रमाणां संख्या च वर्धमाना दृश्यते। एतत् तथ्यं मनसि व्यथां जनयति। एषा स्थिति किमर्थम् आगता?” इति। सः अवदत् यत् अद्य विश्व-वृद्धजन-दुर्व्यवहार-जागरूकता-दिवसे एकस्य संवेदनशील-नागरिकस्य इव अस्माभिः अस्मिन् विषये विचारः कर्तव्यः।
सः अग्रे अपि लिखितवान् यत् सनातन-संस्कृतौ माता-पिता तथा गुरवः साक्षात् ईश्वर-स्वरूपाः मन्यन्ते। वृद्धजनानां सम्मानं केवलं संस्कारः न, अपि तु अस्माकं गौरवपूर्ण-सभ्यतायाः परिचयः अस्ति।
वृद्धजनानां तथा निराश्रित-स्त्रीणां सम्मानपूर्ण-जीवनस्य सुनिश्चित्यर्थं एव प्रदेश-सरकारेण मासिकं १५०० रुप्यकाणां पेंशन-प्रदानस्य निर्णयः कृतः अस्ति।
संयोगात् अस्मिन् वर्षे २१ जूनमासे ‘अन्ताराष्ट्रिय-योग-दिवसः’ इत्यस्य विषयः अपि ‘स्वस्थ-वृद्धावस्थायै योगः’ इति अस्ति। अतः शारीरिक-मानसिक-स्वास्थ्याय योगः अवश्यमेव आचरितव्यः इति अपि सः आह्वयत्।
Hindusthan Samachar / Divya Ranjan