शृङ्गवेरपुरे श्रीराम-निषादराजयोः मैत्र्याः अमरा गाथा साकारं गच्छति, परम्परा-संरक्षणस्य द्वितीय-चरणस्य कार्याणि तीव्रगत्या प्रचलन्ति
प्रयागराजनगरम्, १५ जूनमासः (हि. स.)। भगवत: श्रीरामस्य तथा तस्य बालसखायाः निषादराज-गुहस्य मैत्र्याः, सामाजिक-समरसतायाः तथा समानतायाः अमरा गाथा नवीनं परिचयं प्रदातुं शृङ्गवेरपुरे पर्यटन-विभागेन व्यापक-विकास-कार्याणि क्रियन्ते। वर्षाणि यावत् उपेक्षितं
प्रयागराज के श्रृंगवेरपुर में स्थापित हुई मूर्ति एवं पार्क का छाया चित्र


प्रयागराज के श्रृंगवेरपुर में स्थापित हुई मूर्ति एवं पार्क का छाया चित्र


प्रयागराजनगरम्, १५ जूनमासः (हि. स.)। भगवत: श्रीरामस्य तथा तस्य बालसखायाः निषादराज-गुहस्य मैत्र्याः, सामाजिक-समरसतायाः तथा समानतायाः अमरा गाथा नवीनं परिचयं प्रदातुं शृङ्गवेरपुरे पर्यटन-विभागेन व्यापक-विकास-कार्याणि क्रियन्ते। वर्षाणि यावत् उपेक्षितं तत् ऐतिहासिकं पौराणिकं च स्थलम् अधुना केन्द्रस्य मोदी-सर्वकारेण तथा प्रदेश-सरकारेण धार्मिक-सांस्कृतिक-पर्यटनस्य प्रमुखकेन्द्रत्वेन विकसितुं अभियानं आरब्धम् अस्ति। भगवत: श्रीरामस्य निषादराज-गुहस्य च मिलनस्य भव्य-प्रतिमा तथा निषादराज-उद्यानं पूर्वमेव स्थापितौ विकसितौ च स्तः, अधुना तु द्वितीय-चरणे व-संरक्षणस्य आधारभूत-सौविध्यानां च विस्तारस्य कार्याणि तीव्रगत्या प्रचलन्ति।

क्षेत्रीय-पर्यटन-अधिकारी अपराजिता-सिंहः अवदत् यत् शृङ्गवेरपुरं केवलं पर्यटन-स्थलं न, अपि तु रामायण-कालीन-इतिहासस्य भारतीय-संस्कृतेः च जीवित-धरोहरः अस्ति। अत्र भगवत: श्रीरामस्य निषादराज्ञ: च मिलनं प्रदर्शयन्ती भव्य-प्रतिमा पूर्वमेव स्थापिता अस्ति तथा निषादराज-उद्यानं आकर्षक-स्वरूपेण विकसितम् अस्ति, यत् श्रद्धालूनां पर्यटकानां च मध्ये विशेष-आकर्षणस्य केन्द्रं भवति।

सा अवदत् यत् मुख्यमन्त्रिणा योगी-आदित्यनाथेन आरब्धस्य द्वितीय-चरण-विकास-कार्यक्रमस्य अन्तर्गतं श्रीराम-निषादराज-गुह-संबद्धानां अन्य-पौराणिक-स्थलानां संरक्षणं सौन्दर्यीकरणं च क्रियते। तदतिरिक्तं संपर्क-मार्गाणां चौड़ीकरणं-सुदृढ़ीकरणं, प्राचीन-तालाबानां पुनरुद्धारः, परिसरस्य सौन्दर्यीकरणं, पर्यटक-सुविधानां विस्तारः तथा श्रद्धालूनां निवासाय विशाल-सभागारस्य अन्य-आवश्यक-संरचनानां च निर्माणं क्रियते।

अपराजिता-सिंहः उक्तवती यत् परियोजनायां आधुनिक-लाइट-एण्ड-साउण्ड-शो-व्यवस्था अपि विकसिता क्रियते, यस्य माध्यमेन भगवत: श्रीरामस्य, मातु: सीतायाः तथा लक्ष्मणस्य वनगमनम् एवं निषादराज-गुह-द्वारा गङ्गापार-करणस्य ऐतिहासिक-प्रसङ्गः सजीव-रूपेण प्रस्तूयते। एतेन देश-विदेशात् आगच्छन्तः पर्यटकाः भारतीय-संस्कृतेः रामायण-कालीन-इतिहासस्य च अनुभवं प्राप्स्यन्ति।

सा अवदत् यत् शृङ्गवेरपुरे अधुना यावत् प्रायः १३५ कोटि-रूप्यकाणां विकास-परियोजनाः पूर्णाः जाताः, तथा च प्रायः ३० कोटि-रूप्यकाणां अतिरिक्त-कार्याणि प्रस्तावितानि प्रगतौ च सन्ति। एतानि कार्याणि पूर्णत्वं गच्छन्ति चेत् शृङ्गवेरपुरं धार्मिक-सांस्कृतिक-परम्परि-पर्यटनस्य राष्ट्रिय-मानचित्रे प्रमुखं स्थानं प्राप्स्यति।

क्षेत्रीय-पर्यटन-अधिकारी उक्तवती यत् भगवत: श्रीरामस्य निषादराज-गुहस्य च मैत्री भारतीय-समाजे सामाजिक-समरसतायाः, समानतायाः, भ्रातृत्वस्य च सर्वोत्तमम् उदाहरणम् अस्ति। पर्यटन-विभागस्य उद्देश्यम् अस्य गौरवशालिन्याः परम्परायाः संरक्षणं कृत्वा नवपीढ्यां प्रति तां प्रेषयितुं तथा शृङ्गवेरपुरं तादृशं सांस्कृतिक-केन्द्रं कर्तुं यत्र इतिहासः, आस्था, आधुनिक-पर्यटन-सुविधाश्च सम्यक् संगमं प्राप्नुवन्ति।

Hindusthan Samachar / Divya Ranjan