वाराणसीनगरम् - अन्ताराष्ट्रिय-योग-दिवसस्य उपलक्ष्ये काश्यां योगस्य वातावरणम्, नमो-घट्टे योग-सप्ताहस्य शुभारम्भः
वाराणसीनगरम्, १५ जूनमासः (हि.स.)। आगामिनि २१ जूनमासे आयोज्यमानस्य द्वादश-अन्ताराष्ट्रिय-योग-दिवसस्य पूर्वं धर्मनगर्यां काश्यां योगस्य वातावरणं सर्वत्र दृश्यते। सोमवासरात् गङ्गा-घट्टेषु, सार्वजनिक-उद्यानेषु, विद्यालयेषु, महाविद्यालयेषु तथा विविध-संस
नमोघाट पर योग सप्ताह में शामिल विशिष्ट जन


नमोघाट पर योग सप्ताह में शामिल विशिष्ट जन


वाराणसीनगरम्, १५ जूनमासः (हि.स.)। आगामिनि २१ जूनमासे आयोज्यमानस्य द्वादश-अन्ताराष्ट्रिय-योग-दिवसस्य पूर्वं धर्मनगर्यां काश्यां योगस्य वातावरणं सर्वत्र दृश्यते। सोमवासरात् गङ्गा-घट्टेषु, सार्वजनिक-उद्यानेषु, विद्यालयेषु, महाविद्यालयेषु तथा विविध-संस्थासु अन्ताराष्ट्रिय-योग-सप्ताहस्य शुभारम्भः कृतः। अस्यैव क्रमस्य अन्तर्गतं नमो-घट्टे अपि अस्य वर्षस्य “स्वस्थ-वृद्धावस्थायै योगः” इति विषयवस्तुं पुरस्कृत्य योग-सप्ताहस्य विधिवत् उद्घाटनं सम्पन्नम्।

कार्यक्रमे मुख्यातिथिरूपेण उत्तरप्रदेश-सर्वकारस्य आयुष-मन्त्री डॉ.दयाशङ्कर-मिश्रः ‘दयालुः’ तथा विशिष्टातिथिरूपेण राज्यमन्त्री हंसराज-विश्वकर्मा उपस्थितौ आस्ताम्। कार्यक्रमस्य शुभारम्भः क्षेत्रीय-आयुर्वेदिक-यूनानी-अधिकारिणा डॉ.अरविन्द-कुमार-महोदयेन, डॉ.नितेश-श्रीवास्तव-महोदयेन, उपजनपदाधिकारिणा पवनकुमार-सिंह-महोदयेन, मूल-शिक्षा-अधिकारिणा संजय-यादव-महोदयेन, दिनेश-यादव ‘पप्पू’-महोदयेन, गोवर्धन-पूजा-समित्याः अध्यक्षेण विनोद-यादव- ‘गप्पू’-महोदयेन तथा अन्यैः अतिथिभिः दीप-प्रज्वलनेन कृतः।

ततः परं नमो-घट्टे बहुसंख्यया उपस्थितैः महिला-पुरुषैः आयुष-मन्त्रालयेन निर्धारित-योग-नियमानुसारेण योग-शिक्षकस्य दिनेश-कुमार-मौर्य-महोदयस्य तथा योग-शिक्षिकायाः आरती-सिंह-महोदयायाः निर्देशनस्य अधीनं सामूहिक-योगाभ्यासः कृतः। योग-सत्रे सहभागिभिः विविध-योगासनानां प्राणायामस्य च अभ्यासः कृत्वा स्वस्थ-जीवन-शैल्याः सन्देशः प्रदत्तः।

अस्मिन् अवसरे आयुष-मन्त्री डॉ.दयाशङ्कर-मिश्रः ‘दयालुः’ तथा मन्त्री हंसराज-विश्वकर्मा जनान् प्रति आह्वानम् अकुरुताम् यत् योगः दैनिक-जीवनस्य अभिन्न-अङ्गत्वेन स्वीक्रियताम्। ताभ्याम् उक्तं यत् योगः भारतस्य प्राचीन-सांस्कृतिक-धरोहरः अस्ति, यः अद्य वैश्विक-स्तरे मानव-स्वास्थ्यस्य कल्याणस्य च प्रभावी-माध्यमत्वेन प्रतिष्ठां प्राप्तवान्। ऋषि-मुनिभिः विकसितेयं अमूल्या परम्परा अद्य सम्पूर्णं विश्वं स्वस्थ-सन्तुलित-जीवनस्य मार्गं दर्शयति तथा भारतं विश्वगुरुरूपेण प्रतिष्ठापयति।

कार्यक्रमस्य अध्यक्षतां मुख्य-विकास-अधिकारी प्रखर-कुमार-सिंह-महोदयः अकरोत्, यदा च कार्यक्रमस्य सञ्चालनं पारस-यादव ‘पप्पू’-महोदयेन तथा डॉ.दीपिका-दवे-महोदयया कृतम्।

Hindusthan Samachar / Divya Ranjan