ऋषि-मुनयो देशस्य एकतायाः वास्तविकश्शिल्पकारः, महर्षि अगस्त्यःतदीयः सर्वतो महान् प्रतीकः : उपराष्ट्रपति
- ऋषि अगस्त्य भारतस्य एकतां सांस्कृतिकपरिचयमवगंतुं कुंजी वर्तते: सुनील आंबेकरः नव दिल्ली, 15 जूनमासः (हि.स.)। उपराष्ट्रपतिः सी पी राधाकृष्णन उक्तवान् यत् भारतस्य एकतायाः वास्तविकशिल्पकाराः राजानः वा राजनैतिकसंस्थाः न सन्ति अपितु देशस्य ऋषयः म
उपराष्ट्रपति सी. पी. राधाकृष्णन और राष्ट्रीय स्वयंसेवक संघ के अखिल भारतीय प्रचार प्रमुख सुनील आंबेकर सोमवार को ‘अगत्थियार – द यूनिफायर’ पुस्तक का विमोचन करते हुए


- ऋषि अगस्त्य भारतस्य एकतां सांस्कृतिकपरिचयमवगंतुं कुंजी वर्तते: सुनील आंबेकरः

नव दिल्ली, 15 जूनमासः (हि.स.)।

उपराष्ट्रपतिः सी पी राधाकृष्णन उक्तवान् यत् भारतस्य एकतायाः वास्तविकशिल्पकाराः राजानः वा राजनैतिकसंस्थाः न सन्ति अपितु देशस्य ऋषयः मुनयः च आसन्। तेन उक्तं यत् महर्षिः अगस्त्यः भारतस्य सांस्कृतिकआध्यात्मिकएकतायाः महान् प्रतीकानाम् मध्ये अन्यतमः अस्ति।

उपराष्ट्रपतिभवने सोमवासरे आयोजिते समारोहे उपराष्ट्रपतिना अगत्थियार द यूनिफायर इति पुस्तकस्य विमोचनं कृतम्। अस्य पुस्तकस्य लेखकौ ओ शमा भट तथा डॉ एम एन सुधा स्तः यदा तस्य तमिलभाषानुवादः प्राध्यापिका कल्याण्या कृतः अस्ति। पुस्तकस्य प्रकाशनं कलैमगल इति तमिलसाहित्यिकपत्रिकया कृतम्।

स्वीयसम्बोधने उपराष्ट्रपतिः उक्तवान् यत् भारतस्य भाषाः परस्परस्य प्रतिद्वन्द्विन्यः न सन्ति अपितु भगिन्यः सन्ति याभिः शताब्दीभ्यः परस्परसम्मानस्य सांस्कृतिकविनिमयस्य च माध्यमेन परस्परं समृद्धीकरणं कृतम् अस्ति। तेन उक्तं यत् भारतस्य एकता काचित् आधुनिककल्पना न अस्ति अपि तु सहस्रवर्षप्राचीना सभ्यतासत्यता अस्ति।

चिन्तां व्यक्तीकुर्वन् सः उक्तवान् यत् तमिलभाषया अनेके जनाः लाभं प्राप्तवन्तः सन्ति किन्तु तमिलभाषायै जीवनं समर्पितवन्तः विद्वांसः अद्य यथोचितमान्यता न प्राप्नुवन्ति। तेन तमिलसाहित्यकारस्य यू वी स्वामीनाथ अय्यरस्य योगदानस्य उल्लेखं कृत्वा उक्तं यत् तेन तमिलसाहित्यस्य अमूल्यधरोहरायाः संरक्षणस्य ऐतिहासिककार्यं कृतम्।

राधाकृष्णन उक्तवान् यत् लेखकाभ्यां अनुसन्धानस्य आधारेण देशस्य विविधभागेषु ऋषेः अगस्त्यस्य सम्बद्धपरम्पराणां सन्दर्भाणां च विस्तृतसङ्कलनं कृतम् तथा च एतत् पुस्तकं भारतस्य सांस्कृतिकएकतायाः सन्देशं व्यापकस्तरे प्रसारितुं सहायकं भविष्यति। तेन उक्तं यत् अगस्त्यः उत्तरदक्षिणभारतयोः उभयपरम्परासु समानरूपेण पूजनीयः अस्ति तथा हिमालयतः हिन्दमहासागरपर्यन्तं भारतस्य सांस्कृतिकएकतायाः प्रतिनिधित्वं करोति।

राष्ट्रीयस्वयंसेवकसंघस्य अखिलभारतीयप्रचारप्रमुखः सुनीलआम्बेकर उक्तवान् यत् अद्य यदा देशस्य एकता अखण्डता सांस्कृतिकपरिचयस्य विषये व्यापकचर्चा भवति तदा ऋषेः अगस्त्यस्य जीवनस्य योगदानस्य च स्मरणम् अत्यन्तं महत्त्वपूर्णम् अस्ति।

तेन उक्तं यत् ऋषिः अगस्त्यः केवलं धार्मिकः पौराणिकः वा व्यक्तित्वं न अस्ति अपितु भारतस्य सांस्कृतिकएकतायाः सजीवप्रतीकः अस्ति। तेन उक्तं यत् प्राचीनभारते दक्षिणापथस्य अवधारणया देशस्य विविधप्रदेशाः एकस्मिन् सांस्कृतिकसूत्रे दृष्टाः आसन् तथा ऋषिः अगस्त्यः तस्याः परम्परायाः प्रमुखवाहकः आसीत्।

तेन उक्तं यत् ऋषेः अगस्त्यस्य उल्लेखः साहित्ये परम्परासु लोकस्मृतिषु च व्यापकतः प्राप्यते। विशेषतः तमिलभाषायाः व्याकरणस्य च विकासे तस्य योगदानं तमिलम् उत्तरदक्षिणभारतयोः मध्ये महत्त्वपूर्णसेतुरूपेण स्थापयति।

आम्बेकरः उक्तवान् यत् अद्य देशस्य जनाः स्वमूलानां सांस्कृतिकपरिचयस्य च बोधनार्थं प्रयासं कुर्वन्ति। तेन उक्तं यत् यदि जनाः भगवान् मुरुगन तथा ऋषिः अगस्त्य इत्यादीनां महानां परम्पराणां ज्ञानं प्राप्नुयुः तर्हि ते भारतस्य वास्तविकां सांस्कृतिकात्मानं श्रेष्ठतया ज्ञातुं शक्नुवन्ति।

तेन तमिलनाडु तथा दक्षिणभारतस्य विविधमन्दिराणां सांस्कृतिककार्यक्रमाणां च अनुभवाः साझा कृताः तथा उक्तं यत् तत्र अद्यापि अनेकाः प्राचीनपरम्पराः सजीवाः सन्ति। तेन उक्तं यत् भारतस्य पारम्परिककलाः साहित्यं मन्दिरपरम्पराः सांस्कृतिकधरोहराः च देशस्य एकतां अखण्डतां च सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।

आम्बेकरः पुस्तकस्य प्रकाशनं महत्त्वपूर्णपहलरूपेण निर्दिश्य तस्य लेखकयोः प्रयासस्य प्रशंसा कृतवान्। तेन जनान् पुस्तकं पठितुं ऋषेः अगस्त्यस्य माध्यमेन भारतस्य सांस्कृतिकएकतायाः सन्देशं अवगन्तुं च आह्वानं कृतम्।

कार्यक्रमे कलैमगल पत्रिकायाः सम्पादकः कीलाम्बुर शङ्कर सुब्रमणियन वरिष्ठलेखकः पत्रकारः मलान सहिताः अनेकाः गणमान्यव्यक्तयः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani