प्राथमिक शिक्षकनियुक्तिभ्रष्टाचारः : निरंतरं द्वितीय दिने प्रवर्तन निदेशालयस्य समक्षं प्रस्तुतः अभिषेक बनर्जी
कोलकाता, 15 जूनमासः (हि.स.)। पश्चिम बंगालस्य डायमण्ड हार्बर क्षेत्रात् लोकसभासांसदः तथा तृणमूल कांग्रेसस्य राष्ट्रिय महासचिवः अभिषेक बनर्जी सोमवासरे प्राथमिक शिक्षक नियुक्ति भ्रष्टाचार प्रकरणे पृच्छापरिप्रश्नार्थं प्रवर्तन निदेशालयस्य कार्यालयं प्र
तृणमूल कांग्रेस के राष्ट्रीय महासचिव अभिषेक बनर्जी (फाइल फाेटाे)


कोलकाता, 15 जूनमासः (हि.स.)। पश्चिम बंगालस्य डायमण्ड हार्बर क्षेत्रात् लोकसभासांसदः तथा तृणमूल कांग्रेसस्य राष्ट्रिय महासचिवः अभिषेक बनर्जी सोमवासरे प्राथमिक शिक्षक नियुक्ति भ्रष्टाचार प्रकरणे पृच्छापरिप्रश्नार्थं प्रवर्तन निदेशालयस्य कार्यालयं प्राप्तवान्। तं प्रातः एकादशवादने सॉल्टलेक स्थिते सीजीओ कॉम्प्लेक्से समाहूतम् आसीत्। किन्तु सः निर्धारितकालात् पूर्वमेव तत्र प्राप्तवान्। ईडी कार्यालये प्रवेशकाले सः माध्यमप्रतिनिधीनां प्रश्नेषु किमपि टिप्पणीं न कृतवान्।

अभिषेकस्य उपस्थितिं प्रति अस्मिन् वारे सीजीओ कॉम्प्लेक्से अतिरिक्त सुरक्षा व्यवस्था न दृष्टा। परिसरे न अतिरिक्तः पुलिसबलः न च केन्द्रीयबलस्य नियुक्तिः कृता आसीत्। अस्मात् पूर्वं यदा यदा अभिषेकः अन्वेषणसंस्थानानां समक्षम् उपस्थितः अभवत् तदा सम्पूर्णे क्षेत्रे विशेष सतर्कता पालिता आसीत् तथा गमनागमनस्य अपि नियन्त्रणं कृतम् आसीत्।

रविवासरे अपि अभिषेकः विधानसभायाः हस्ताक्षर जालसाजी प्रकरणे सीआईडी संस्थायाः समक्षं भवानी भवनस्थाने प्रायः अष्टाधिक अर्धघण्टापर्यन्तं पृच्छापरिप्रश्नस्य सामना कृतवान् आसीत्। अस्मिन् एव प्रकरणे बेलियाघाटा क्षेत्रात् तृणमूल विधायकः कुणाल घोष अपि आहूतः आसीत्। सूत्राणां अनुसारं उभौ आमुखं उपवेश्य पृच्छापरिप्रश्नः कृतः। सीआईडी कार्यालयात् निर्गमनानन्तरं अभिषेकः प्रत्यक्षं मुख्यमन्त्री ममता बनर्जी निवासं गतवान् आसीत्।

अभिषेकं मङ्गलवासरे अपि पुनः सीआईडी संस्था समाहूतवती। एतस्य अतिरिक्तं सॉल्टलेक प्रदेशे पञ्जीकृतस्य अन्यस्य एकस्य अभियोगस्य सम्बन्धे राज्यपुलिसस्य गुप्तशाखा बुधवासरे अपि तस्य पृच्छापरिप्रश्नं कर्तुम् इच्छति। किन्तु कलकत्ता उच्च न्यायालयः विधानसभायाः हस्ताक्षर जालसाजी प्रकरणे तं अन्वेषणे सहयोगं कर्तुं निर्देशं दत्त्वा आगामी द्विसप्ताहपर्यन्तं तस्य विरुद्धं कस्यापि कठोरकार्यवाह्याः उपरि निरोधं कृतवान्। किन्तु प्राथमिक नियुक्ति प्रकरणे तथा सॉल्टलेकस्य अन्यस्मिन् प्रकरणे तस्मै एतादृशी काचित् राहत न प्राप्ता।

प्राथमिक शिक्षकनियुक्तिभ्रष्टाचारप्रकरणस्य अन्वेषणं ईडी दीर्घकालात् करोति। अस्मात् पूर्वं केन्द्रीय अन्वेषण ब्यूरो संस्थायाः अन्वेषणकाले प्राप्ते एकस्मिन् श्रव्यलेखे अभिषेक बनर्जी नाम्नः व्यक्तेः उल्लेखः प्राप्तः आसीत्। तस्मिन् श्रव्यलेखे कथितरूपेण नियुक्तेः बदले संगृहीतं धनम् अभिषेकस्य समीपं प्रापयितुं कथनम् आसीत्। सीबीआई संस्थया स्वस्य आरोपपत्रे अपि अस्य श्रव्यलेखस्य उल्लेखः कृतः आसीत्।

अस्य एव श्रव्यलेखस्य आधारेण कालीघाट के काकू इति नाम्ना प्रसिद्धस्य सुजय कृष्ण भद्रस्य स्वरनमूनस्य अपि परीक्षणं कृतम् आसीत्। प्रवर्तन निदेशालयः अधुना अस्मात् श्रव्यलेखात् सम्बद्धान् विषयान् स्वीयान्वेषणस्य क्षेत्रे आनयितुम् इच्छति। एतस्य अतिरिक्तं अभिषेक बनर्जेः कम्पनी लिप्स एण्ड बाउण्ड्स इत्यस्य वित्तीय लेनदेनानि अपि अन्वेषणसंस्थायाः निरीक्षणे सन्ति। मन्यते यत् अस्य सम्बन्धे अपि तस्मात् पृच्छापरिप्रश्नः कर्तुं शक्यते। ईडी अस्मात् पूर्वमपि अस्मिन् प्रकरणे अभिषेकात् बहुवारं पृच्छापरिप्रश्नं कृतवती।----------------

Hindusthan Samachar / Dheeraj Maithani