Enter your Email Address to subscribe to our newsletters

कोलकाता, 15 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसे अस्मिन्पर्याये प्रधानमन्त्री नरेन्द्रमोदी कोलकातानगरे भवितव्ये मुख्यकार्यक्रमे सहभागिता करिष्यति। रविवासरे रेडरोडस्थाने आयोजिते अस्मिन् कार्यक्रमे बहुसंख्यकजनानां सहभागितायाः सम्भावना अस्ति। प्रधानमन्त्रिणा सहितो राज्यस्य मुख्यमन्त्री शुभेन्दुअधिकारी अपि मञ्चं सहकारितांकरिष्यति।
कार्यक्रमस्य सिद्धतां दृष्ट्वा कोलकातापुलिसदलेन रेडरोडमार्गः सप्तदिनपर्यन्तं निरुद्धुं निर्णयः कृतः। मञ्चनिर्माणस्य कार्यं पूर्वमेव आरब्धम् अस्ति। पुलिसदलस्य अनुसारं पञ्चदश जूनतः एकविंशति जूनपर्यन्तं रेडरोडमार्गे सर्वेषां वाहनानाम् आवागमनं पूर्णरूपेण निरुद्धं भविष्यति।
कोलकातापुलिसायुक्तेन अजयनन्देन निर्गतायां अधिसूचनायां उक्तम् अस्ति यत् विंशति जूनस्य रात्रौ द्विवादनतः एजेसी बोस रोड मौलाली मोड तथा सेंट जॉर्जेस गेट रोडमार्गेण दक्षिणदिशं गच्छतां वाहनानाम् आवागमनम् नियन्त्रितं भविष्यति। योगदिवसकार्यक्रमस्य समाप्तिपर्यन्तम् एतेषु मार्गेषु मालवाहनानां प्रवेशः अपि निषिद्धः भविष्यति।
एतदतिरिक्तं स्ट्रैण्ड रोडमार्गतः राजा उडमण्ट स्ट्रीटगमनमार्गे तथा सीआर एवेन्यूतः दक्षिणदिशं जीसी एवेन्यू गमनमार्गे अपि प्रतिबन्धः प्रवर्तिष्यते। जवाहरलालनेहरूमार्गस्य उभयलेनयोः अपि निर्धारितकालावधौ मालवाहनानां संचालनं निरुद्धं भविष्यति।
पुलिसेन स्पष्टं कृतम् यत् एकविंशति जूनस्य कार्यक्रमसमाप्तिपर्यन्तं मेयो रोडमार्गे सर्वप्रकाराणां वाहनानाम् आवागमनं निरुद्धं भविष्यति। तथापि योगदिवसकार्यक्रमे सहभागितार्थम् अधिकृतविशेषचिह्नयुक्तानि वाहनानि मेयो रोडमार्गस्य उपयोगं कर्तुं शक्नुवन्ति।
विंशति जूनस्य रात्रौ द्विवादनतः कार्यक्रमस्य समाप्तिपर्यन्तं नगरस्य अन्येषु बहुषु मार्गेषु अपि यातायातप्रतिबन्धः प्रवर्तिष्यते। तेषु हॉस्पिटल रोड पूर्वपश्चिमभागौ लवर्स लेन कैसुरिना एवेन्यू खिदिरपुर रोड घोडापासतः जे एण्ड एन आइलैण्डपर्यन्तम् आर आर एवेन्यू गोष्ठपालसरणी क्वीन्सवे पलाशीगेट रोड डफरिन रोड तथा आउटराम रोड इत्येते समाविष्टाः सन्ति।
प्रधानमन्त्री नरेन्द्रमोदी विंशति जूनदिने पश्चिमबङ्गालं प्राप्स्यति तथा अनन्तरदिने अन्ताराष्ट्रिययोगदिवससमारोहे सहभागिता करिष्यति।-------------------