Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १५ जूनमासः (हि.स.)। पश्चिमबङ्गालस्य प्राथमिक-शिक्षक-नियुक्ति-वंचन-प्रकरणे डायमण्ड-हार्बर-लोकसभा-क्षेत्रस्य सांसदः तथा तृणमूल-काङ्ग्रेस-दलस्य राष्ट्रीय-महासचिवं अभिषेक-बनर्जी-महोदयं प्रति प्रवर्तन-निदेशालयेन (ईडी) सोमवासरे पृच्छा क्रियते। अभिषेक-बनर्जी-महोदयः निर्धारित-समयात् पूर्वमेव साल्ट-लेक-स्थितं सीजीओ-कॉम्प्लेक्स आगतः, यत्र तेन सह निरन्तरं प्रश्नोत्तर-प्रक्रिया प्रवर्तते।
सूत्रानुसारम्, ईडी-संस्थायाः एषा पृच्छा केन्द्रीय-अन्वेषण-ब्यूरो इत्यस्य तृतीय-अनुपूरक-आरोपपत्रम् आधारीकृत्य क्रियते। तस्मिन् आरोपपत्रे २०१७ तमवर्षस्य कथितः पञ्चदश-निमेष-परिमितः श्रव्य-संवादः उल्लिखितः अस्ति, यस्मिन् बहुवारम् “अभिषेक-बनर्जी” इति नाम निर्दिष्टम् इति उक्तम्। तस्मिन् संवादे कथितरूपेण नियुक्ति-प्राप्त्यर्थं धनग्रहणस्य तथा तस्य धनस्य वितरणस्य विषये चर्चा अभवत् इति उक्तः।
अस्मिन् प्रकरणे पूर्वमेव तथाकथितः “कालीघट्टस्य काकू” सुजयकृष्ण-भद्रः, तृणमूल-दलस्य पूर्व-युवा-नेता शान्तनु-बनर्जी तथा कुन्तल-घोषः च गृहीताः सन्ति। अन्वेषण-संस्थानां मतानुसारं २०१७ तमवर्षे सुजयकृष्ण-भद्रस्य बेहाला-स्थिते निवासे एतेषां त्रयाणां मध्ये सभा सम्पन्ना आसीत्। अन्वेषण-कालस्य मध्ये सीबीआई-संस्थया तस्मात् कालात् सम्बद्धा एका श्रव्य-ध्वनि-लेखिका प्राप्ता, या पश्चात् आरोपपत्रस्य भागत्वेन समावेशिता।
सीबीआई-संस्थायाः अनुसारम्, तस्यां ध्वनि-लेखिकायां प्राथमिक-शिक्षक-नियुक्त्यर्थं महती धनराशिः याचिता इति चर्चायाः उल्लेखः अस्ति। अभ्यर्थिभ्यः कियत् धनम् संग्रहीष्यते तथा तत् धनं कथं प्रेषयिष्यते इति विषये अपि संवादः जातः इति आरोपः अस्ति। तथापि, ध्वनि-लेखिकायां उल्लिखितः “अभिषेकः” अभिषेक-बनर्जी एव वा न वा, अस्मिन् विषये अद्यापि काचिद् आधिकारिक-पुष्टिः न प्राप्ता।
आरोपपत्रे एतदपि उक्तम् अस्ति यत् कथित-उत्कोच-राशेः अप्राप्तौ नियुक्तिनां स्थगनस्य तथा नियुक्त्यभ्यर्थिनः मिथ्या-प्रकरणेषु संलग्नीकर्तुं भय-प्रदानस्य अपि उल्लेखः वर्तते। संवादे नियुक्ति-वंचनस्य अन्येषाम् आरोपितानां तथा राज्यस्य पूर्व-मन्त्रिणः पार्थ-चट्टोपाध्यायस्य नामापि समागतं दृश्यते।
अन्वेषण-संस्थाः सुजयकृष्ण-भद्रस्य तथा अभिषेक-बनर्जी-महोदयस्य “लिप्स एण्ड बाउण्ड्स” इति निर्माणीमध्ये विद्यमानानां सम्बन्धानां वित्तीय-आदानप्रदानानां च अपि अन्वेषणं कुर्वन्ति। सुजयकृष्ण-भद्रः पूर्वं अस्यां निर्माण्यां कर्मचारी आसीत्। ईडी-संस्था एतस्मात् पूर्वम् अपि अस्याः निर्माण्या: वित्तीय-विषयेषु अभिषेक-बनर्जी-महोदयात् पृच्छां कृतवती आसीत्।
सूत्राणां कथनानुसारम्, अस्मिन् वारे ईडी-संस्था अभिषेक-बनर्जी-महोदयात् तस्य अन्य-निर्माणीनां तथा ताभिः सम्बद्धानां वित्तीय-आदानप्रदानानां विषये अपि सूचनाः सङ्ग्रहीतुं शक्नोति। अतः प्राथमिक-नियुक्ति-वंचन-प्रकरणेन सह तस्य व्यापारिक-क्रियाकलापाः अपि अन्वेषणस्य परिधौ समाविष्टाः सन्ति।
उल्लेखनीयम् अस्ति यत् अभिषेक-बनर्जी-महोदयः पूर्वम् एतान् आरोपान् राजनैतिक-प्रतिशोधरूपेण निरूप्य कस्यापि अनियमिततायाः सहभागित्वं नास्ति इति उक्तवान्। प्रकरणस्य अन्वेषणं अद्यापि प्रवर्तते तथा च संस्थाः उपलब्ध-साक्ष्याणाम् आधारेण अग्रिम-कार्यवाहीं कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan