Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 जूनमासः (हि.स.)।
अन्ताराष्ट्रिययोगदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्र मोदी कोलकातानगरे दशलक्षजनैः सह योगं करिष्यति। अस्य वर्षस्य योगदिवसस्य विषयः स्वस्थायुषे योगः इति निर्धारितः अस्ति। मुख्यकार्यक्रमेण सह हुगलीनद्यां पञ्चशतनवाधिकनव नावासु योगकार्यक्रमः अपि भविष्यति।
सोमवासरे राष्ट्रियमाध्यमकेन्द्रे आयोजितायां विशेष कर्टेन रेजर पत्रकारवार्तायां सम्बोधयन् केन्द्रीयमन्त्री प्रतापराव जाधव उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य दूरदर्शिनः नेतृत्वस्य अन्तर्गतं योगः अद्य वैश्विकजनान्दोलनरूपेण परिवर्तितः अस्ति। अस्यैव दृष्टेः अग्रे नयनार्थम् अस्य वर्षस्य विशेषविषयः स्वस्थायुषे योगः इति निर्धारितः अस्ति।
केन्द्रीय आयुषमन्त्री प्रतापराव जाधव उक्तवान् यत् अस्मिन् वर्षे एकविंशतितमे जूनमासस्य दिने योगदिवसस्य मुख्यकार्यक्रमः कोलकातानगरस्य रेड रोड स्थले भविष्यति। प्रतापराव जाधव उक्तवान् यत् विंशतितमे जूनमासस्य दिने बंगालदिवसः अपि आचरिष्यते तथा च एकोनविंशतितमे जूनमासस्य दिने योगतः ध्यानकार्यक्रमः भविष्यति।
सः अवदत् यत् कोलकातानगरे योगदिवसस्य सज्जता पूर्णवेगेन प्रचलति। पश्चिमबङ्गप्रदेशे गतपञ्चाशतवर्षेषु कदापि योगस्य महत्त्वं न प्रदत्तम्, यद्यपि बंगालप्रदेशस्य स्वामी विवेकानन्दः योगस्य प्रचारप्रसारं विश्वस्य सर्वेषु भागेषु कृतवान् आसीत्। अतः अस्य वारस्य योगदिवसस्य मुख्यकार्यक्रमः कोलकातानगरे आयोजितः भवति। एकोनविंशतितमे जूनमासस्य दिने कोलकातानगरे रन फोर योग कार्यक्रमः भविष्यति।
सः अवदत् यत् दिल्लीनगरे अष्टत्रिंशत्स्थानेषु योगकार्यक्रमाः भविष्यन्ति। मुख्यकार्यक्रमः दिल्लीनगरस्य कर्तव्यपथस्थले भविष्यति। संस्कृतिमन्त्रालयम् अस्मिन् वर्षे शतं पुरातत्त्वमहत्त्वयुक्तेषु स्थानेषु योगदिवसकार्यक्रमान् आयोजयिष्यति। सः अधिकाधिकजनान् आहूतवान् यत् ते योगदिवसे योगं कुर्वन्तु स्वीयां स्वचित्रिकां गृहीत्वा सामाजिकमाध्यमेषु अद्यतनं कुर्वन्तु।
सः उक्तवान् यत् योगः विश्वस्य जनान्दोलनं जातः अस्ति। विदेशमन्त्रालयस्य सर्वाणि दूतावासानि अस्मिन् योगदिवसे आउट रिच कार्यक्रमान् आयोजयिष्यन्ति। अस्मिन् वर्षे ब्रिटिश प्रधानमन्त्री सह भारतस्य ब्रिटिश दूतावासे योगकार्यक्रमः भविष्यति। गतवर्षे जापानस्य प्रधानमन्त्री सह योगकार्यक्रमः आयोजितः आसीत्।
अस्मिन् अवसरे आयुषमन्त्रालयस्य सचिवः वैद्य राजेश कोटेचा, आयुषमन्त्रालयस्य संयुक्तसचिवा मोनालीशा दाश तथा पत्रसूचनाकार्यालयस्य प्रधानमहानिदेशकः धीरेन्द्र ओझा उपस्थिताः आसन्।
---------------