Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 15 जूनमासः (हि.स.)।शांतिकुञ्जे गायत्री विद्यापीठस्य बालकानां कृते आयोजितस्य भारतीय भाषाग्रीष्मशिविरस्य अद्य समापनम् अभवत्। शिविरस्य अन्तिमसत्रस्य अवसरे सांस्कृतिकसन्ध्यायाः आयोजनं कृतम्। अस्य शुभारम्भः गायत्री विद्यापीठस्य व्यवस्थामण्डलस्य प्रमुखया श्रीमती शैफाली पण्ड्या दीपप्रज्वलनेन कृतः। अस्मिन् अवसरे बालकैः प्रस्तुतानि विविधानि सांस्कृतिककार्यक्रमाः, लघुनाटिकाः, नृत्यानि तथा रचनात्मकप्रस्तुतयः अभिभावकानां, शिक्षकाणां तथा अतिथीनां मनांसि आकर्षितवन्तः।
अस्मिन् अवसरे शैफाली पण्ड्या उक्तवती यत् एतादृशाः आयोजनाः बालकानां व्यक्तित्वविकासे, आत्मविश्वासस्य वर्धने तथा सृजनात्मकप्रतिभायाः परिष्करणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। तया उक्तं यत् भारतीय भाषा समर कैम्पस्य उद्देश्यः बालकान् स्वभाषया, संस्कृत्या तथा नैतिकमूल्यैः संयोजयन् तेषां सर्वाङ्गीणविकासस्य मार्गं प्रशस्तं कर्तुम् अस्ति। तया सर्वेभ्यः प्रतिभागिभ्यः, शिक्षकभ्यः तथा आयोजकेभ्यः सफलाय आयोजनाय अभिनन्दनानि शुभकामनाश्च प्रदत्ताः।
अतः पूर्वं कार्यक्रमस्य आरम्भः गणेशवन्दनया अभवत्, यस्मिन् बालकैः श्रद्धया भक्तिभावेन च स्वप्रस्तुतिः प्रदत्ता। तदनन्तरं जीवनविद्यायाः आधारेण प्रेरणादायिन्याः नाटिकायाः मञ्चनं कृतम्। नाटिकायाः माध्यमेन बालकैः जीवने संस्कारस्य, अनुशासनस्य, सदाचारस्य तथा मानवीयमूल्यानां महत्त्वं प्रभावपूर्णरीत्या प्रस्तुतम्। बालेषु कलाकारिषु अभिनयः, संवादशैली तथा आत्मविश्वासः दर्शकान् प्रभावितवान्।
सांस्कृतिकप्रस्तुतीनां श्रृंखलायां छात्राभिः प्रस्तुतं कत्थकनृत्यं विशेषाकर्षणस्य केन्द्रम् अभवत्। पारम्परिकवेशभूषया भावपूर्णाभिव्यक्त्या च सहितं प्रस्तुतं नृत्यं सर्वेषां मनांसि जितवान्। एतदतिरिक्तं संस्कृतसंभाषणकार्यक्रमे बालकैः सहजया शुद्धया संस्कृतभाषया संवादाः प्रस्तुताः कृत्वा स्वकीयां भाषिकदक्षतां प्रदर्शितवन्तः।
नैतिकशिक्षायाः आधारेण प्रस्तुतौ बालकैः निष्ठा, सहयोगः, सेवा तथा सद्व्यवहार इत्यादीनां गुणानां महत्त्वं वर्णितम्। राजस्थानी समूह नृत्येन कार्यक्रमे लोकसंस्कृतेः वर्णवैचित्र्यं समायोजितम्। विविधवर्णीयवेशभूषासु सज्जिताः बालकाः लोकगीतानां धुनिषु आकर्षकं नृत्यं प्रस्तुतवन्तः।
तथैव चित्रकला तथा यातायातनियमानां विषययोः आधारितप्रस्तुतीनां माध्यमेन बालकैः रचनात्मकतायाः सामाजिकउत्तरदायित्वस्य च सन्देशः प्रदत्तः। अस्मिन् कक्षा त्रितः आरभ्य ११ पर्यन्तं चतुस्त्रिंशत् छात्रच्छात्राः प्रतिभागं कृतवन्तः।
कार्यक्रमस्य अन्ते ग्रीष्मशिविरे सहभागिता कृतवन्तः सर्वे छात्रछात्राः प्रमाणपत्राणि प्रदाय सम्मानिताः।
Hindusthan Samachar / Dheeraj Maithani