प्रधानमन्त्रिणः द्वादश-वर्षीय-कार्यकाले विकसित-भारत-सङ्कल्पाय नूतना गतिः प्राप्ता - महाराजः
हरिद्वारनगरम्, १५ जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य नेतृत्वे केन्द्र-सर्वकारस्य निरन्तर-द्वादश-वर्षीय-कार्यकाले सशक्तः, सक्षमः, आत्मनिर्भरश्च भारतः साकारतां गच्छन् दृश्यते। तस्य मार्गदर्शनेन राष्ट्रं विकासस्य, सुशासनस्य तथा जन
पत्रकारों से वार्ता करते हुए


हरिद्वारनगरम्, १५ जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य नेतृत्वे केन्द्र-सर्वकारस्य निरन्तर-द्वादश-वर्षीय-कार्यकाले सशक्तः, सक्षमः, आत्मनिर्भरश्च भारतः साकारतां गच्छन् दृश्यते। तस्य मार्गदर्शनेन राष्ट्रं विकासस्य, सुशासनस्य तथा जनकल्याणस्य नूतनान् आयामान् स्थापयति। इति मन्त्रिमण्डलीय-मन्त्री तथा जनपद-प्रभारी-मन्त्री सतपाल-महाराज-महोदयः सोमवासरे पत्रकार-सम्मेलने उक्तवान्।

महाराज-महोदयेन उक्तं यत् प्रधानमन्त्री-आवास-योजनायाः अन्तर्गतं चत्वारि-कोट्यधिकानि पक्व-गृहाणि निर्मितानि, एकाशीति-कोटिभ्यः अधिकेभ्यः जनेभ्यः निःशुल्क-अन्न-प्रदत्तम्, षष्टि-कोटिभ्यः अधिकेभ्यः नागरिकेभ्यः आयुष्मान्-भारत-योजनायाः अन्तर्गतं स्वास्थ्य-सुरक्षा प्रदत्ता तथा मुद्रा-योजनया कोटिशः जनानां स्वरोजगार-अवसराः उपलब्धीकृताः। जल-जीवन-अभियानस्य अन्तर्गतं षोडश-कोट्यधिक-गृहेषु शुद्ध-पेयजलस्य व्यवस्था कृता।

तेन उक्तं यत् वर्षे २०१४ पर्यन्तं देशस्य केवलं पञ्च नगराणि मेट्रो-परिवहन-जालेन सम्बद्धानि आसन्, किन्तु अधुना एषा संख्या षड्विंशतिः जाता। डिजिटल-भारत-अभियानस्य प्रभावेण भारतं विश्वस्य समग्र-डिजिटल-वित्तीय-व्यवहाराणां प्रायः षट्पञ्चाशत्-प्रतिशतं वहति। रक्षा-उत्पादनम्, अन्तरिक्ष-विज्ञानम्, कृत्रिम-बुद्धिमत्ता तथा अर्धचालक-निर्माणम् इत्यादिषु क्षेत्रेषु भारतं नूतनाः उपलब्धीः प्राप्नोति।

प्रधानमन्त्रिणः नेतृत्वे उत्तराखण्ड-राज्यमपि विकासस्य नूतन-युगे प्रविष्टम्। राज्ये द्वि-लक्ष-कोटि-रूप्यकाधिक-मूल्यानां विकास-परियोजनानां कार्याणि प्रचलन्ति। चारधाम-सर्वकालिक-मार्ग-परियोजना, दिल्ली-देहरादून-द्रुतमार्गः तथा ऋषिकेश-कर्णप्रयाग-रेल-परियोजना इत्यादयः महत्त्वपूर्णाः उपक्रमाः शीघ्रतया प्रगच्छन्ति। जॉलीग्राण्ट्, पन्तनगरं तथा पिथौरागढ-विमानपत्तनानां विकासः अपि कृतः। उडान-योजनायाः अन्तर्गतं हेलिपट्टिकानां संख्या उल्लेखनीयरूपेण वर्धिता।

केदारनाथ-बदरीनाथ-धाम्नोः पुनर्विकासेन सह सोनप्रयाग-केदारनाथ तथा गोविन्दघाट-हेमकुण्ड-साहिब-रज्जुमार्ग-परियोजनाः धार्मिक-पर्यटनाय नूतनाम् ऊर्ध्वगतिं प्रदास्यन्ति। जमरानी, सौंग तथा लखवाड इत्यादयः बहुउद्देशीय-परियोजनाः अपि शीघ्रतया प्रगतिं कुर्वन्ति।

मुख्यमन्त्रिणः पुष्करसिंह-धामी-महोदयस्य नेतृत्वे हरिद्वार-जनपदे अपि विकास-कार्याणि वेगेन प्रवर्तन्ते। समान-नागरिक-संहितायाः प्रभावी-कार्यान्वयने पञ्जीकरणे च हरिद्वार-जनपदः राज्ये अग्रणी अभवत्। नीति-आयोगेन आकाङ्क्षी-जनपद-कार्यक्रमस्य अन्तर्गतं जनपदः सम्मानितः।

‘जन-जनस्य सर्वकारः, जन-जनस्य द्वारे’ इत्यभियानस्य अन्तर्गतं बहुसंख्यकेभ्यः नागरिकेभ्यः विविध-जनकल्याणकारी-योजनानां लाभाः प्रदत्ताः। कुम्भ-मेला-२०२७ आयोजनस्य सज्जतार्थं विविध-घट्टानां, सेतूनां, सम्पर्क-मार्गाणां तथा आधारभूत-संरचनानां निर्माण-कार्याणि अनुमोदितानि सन्ति। पत्रकार-सम्मेलने जनपदाध्यक्षः आशुतोष-शर्मा, लव-शर्मा इत्यादयः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan