Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जूनमासः (हि.स.)।
केन्द्रीयकृषि-किसानकल्याण-ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः मङ्गलवासरे कृषिभवने उच्चस्तरीयां सभां कृत्वा सम्भावितानाम् अलनीनो परिस्थितीनां सामनार्थं रणनीतेः समीक्षां कृतवान्।
तेन कपासस्य उत्पादनवृद्धये, दलहनक्षेत्रे आत्मनिर्भरता प्राप्तये, अल्पवृष्टिप्रभावितेषु जनपदेषु च पूर्वसज्जीकृत आकस्मिकयोजनायाः विषये विशेषः बलः दत्तः।
सभायां अलनीनो इत्यस्य सम्भावितस्थितेः विषये चर्चां कुर्वन् शिवराजसिंहचौहानः स्पष्टनिर्देशं दत्तवान् यत् येषु जनपदेषु अल्पवृष्टेः अथवा वर्षायाः असमानतायाः आशङ्का अस्ति, तेषु पूर्वमेव सम्पूर्णसज्जता क्रियेत। तादृशानां जनपदानां स्पष्टपहचानं कृत्वा राज्यशासनैः सह समन्वयेन फसलानुसारं आकस्मिकयोजनाः निर्मीयन्ताम्, येन कस्यामपि मौसमसम्बद्धायां चुनौतीस्थितौ कृषकेभ्यः शीघ्रं विकल्पाः, परामर्शः, सहायता च प्रदातुं शक्येत।
तेन उक्तं यत् जलसंरक्षणे, आर्द्रताप्रबन्धने, अन्तरफसलकृषौ तथा वैकल्पिकफसलपद्धतौ विशेषं ध्यानं दत्त्वा प्रत्येकस्य जोखिमयुक्तस्य जनपदस्य कृते पृथक् व्यावहारिका च रणनीतिः निर्मीयताम्। चौहानेन एतत् अपि निर्देशितं यत् येषु नव-दश राज्येषु अलनीनो प्रभावः अपेक्षया अधिकः भवितुं शक्नोति, तेषां चिह्नितजनपदानां जिलाधिकारीणां, कृषिविभागस्य, केवीके तथा अन्यविस्तारतन्त्रस्य सह समन्वितसभाः आयोजनीयाः।
एतासु सभासु जनपदस्तरे सम्पूर्णस्थितिः स्पष्टतया प्रस्तूय कृषकाणां मध्ये जागरूकताअभियानम् आयोजितं भवेत्, येन प्रत्येकः कृषकः ज्ञातुं शक्नुयात् यत् तस्य क्षेत्रस्य कृते काः सावधानताः तथा काः फसलविकल्पाः अधिकसुरक्षिताः सन्ति।
चौहानः पत्रकारैः सह संवादं कुर्वन् उक्तवान् यत् भयस्य अतिशयोक्तिप्रदर्शनस्य स्थाने वैज्ञानिकविश्लेषणस्य आधारेण शान्तः विश्वसनीयः समाधानकेन्द्रितः च सन्देशः कृषकाणां समीपं प्राप्नुयात्, एषा एव शासनस्य प्राथमिकता अस्ति।
सभायां खरीफ २०२६ कृते फसलानुसारलक्ष्याणां, बुवाईप्रगतेः तथा राज्यवारसज्जतायाः समीक्षा कृता तथा कपासोत्पादनवृद्धेः विषये विशेषचर्चा अभवत्।
चौहानेन वैज्ञानिकविधीनाम्, उचितजातिचयनस्य, अन्तरफसलकृषेः, मल्चिंग तथा आर्द्रतासंरक्षणादीनाम् उपायानां व्यापकस्तरे प्रोत्साहनस्य विषये बलः दत्तः, येन कपासस्य उत्पादकता कृषकाणां आयः च उन्नता भवेत्।
दलहनआत्मनिर्भरता अभियानस्य विषये अपि विस्तृतविचारविमर्शः अभवत्। चौहानेन उक्तं यत् शासनस्य प्रयासः अस्ति यत् अरहर, उडद, मूङ्गादिषु दालवर्गेषु देशः अधिकाधिकं आत्मनिर्भरः भवेत् तथा आयातनिर्भरता न्यूनता प्राप्नुयात्।
अस्य कृते राज्यैः सह समन्वयेन फसलचक्रे, क्षेत्रविस्तारे, श्रेष्ठबीजोपलब्धौ तथा तकनीकीमार्गदर्शने विशेषध्यानं दीयते, येन कृषकाः सुरक्षितायाः आयाः सह दलहनोत्पादनं वर्धयितुं शक्नुयुः।
समीक्षाकाले उर्वरकाणाम् उपलब्धता, विपणौ मण्डीमूल्यानि, जलाशयानां जलसञ्चयस्य स्थितिः तथा राज्यवारभण्डारस्य विवरणम् अपि प्रस्तुतम् अभवत्।
चौहानः उक्तवान् यत् राष्ट्रियस्तरे उर्वरकाणां पर्याप्तोपलब्धता अस्ति तथा यथा यथा वर्षाकालस्य गतिः वर्धिष्यते तथा तथा राज्येषु जनपदेषु च आपूर्तिः अधिकं सुदृढा क्रियते। अस्य कृते तेन अधिकारिणः निर्देशान् दत्त्वा एतस्मिन् अपि बलं दत्तवान् यत् यत्र कुत्रापि सूक्ष्मस्तरे न्यूनतायाः आशङ्का दृश्यते, तत्र पूर्वमेव आपूर्तिः सुनिश्चितीक्रियेत, येन कृषकाणां कस्यापि प्रकारस्य कठिनता न भवेत्।
---------------
Hindusthan Samachar / Dheeraj Maithani