स्लोवाकियायाः सम्मानः प्रधानमंत्रिणो मोदिनो वैश्विकविश्वासस्य परिचयः -भाजपादलम्
नव दिल्ली, 16 जूनमासः (हि.स.)। स्लोवाकिया राष्ट्रेण भारतस्य प्रधानमन्त्री नरेन्द्रमोदी स्वस्य सर्वोच्चनागरिकसम्मानेन द ऑर्डर ऑफ द व्हाइट डबल क्रॉस प्रथमश्रेणी इति सम्माननेन सम्मानितः। एषः प्रधानमन्त्री मोदी महोदयाय कस्यापि विदेशीराष्ट्रस्य द्वार
भाजपा के राष्ट्रीय प्रवक्ता एवं सांसद संबित पात्रा (फाइल फोटो)


नव दिल्ली, 16 जूनमासः (हि.स.)।

स्लोवाकिया राष्ट्रेण भारतस्य प्रधानमन्त्री नरेन्द्रमोदी स्वस्य सर्वोच्चनागरिकसम्मानेन द ऑर्डर ऑफ द व्हाइट डबल क्रॉस प्रथमश्रेणी इति सम्माननेन सम्मानितः। एषः प्रधानमन्त्री मोदी महोदयाय कस्यापि विदेशीराष्ट्रस्य द्वारा प्रदत्तः त्रयस्त्रिंशत्तमः वैश्विकः सर्वोच्चसम्मानः अस्ति।

भारतीयजनतापक्षेण एतत् ऐतिहासिकक्षणम् इति मन्यमानं प्रधानमन्त्री नरेन्द्रमोदी महोदयाय अभिनन्दनं प्रदत्तम्। पक्षेण उक्तं यत् अयं सम्मानः देशे तेन कृतानां जनकल्याणकार्याणां तथा वैश्विकस्तरे प्राप्तस्य विश्वासस्य मान्यता अस्ति।

मङ्गलवासरे पत्रकारैः सह वार्तालापं कुर्वन् भारतीयजनतापक्षस्य राष्ट्रियप्रवक्ता सांसदः सम्बितपात्रा अवदत् यत् प्रधानमन्त्रीणः प्राप्तेन अनेन सम्माननेन राष्ट्रस्य गौरवम् अधिकं वर्धितम्।

तेन उक्तं यत् अनेन सम्माननेन सह प्रधानमन्त्री नरेन्द्रमोदी महोदयः विभिन्नदेशेभ्यः प्राप्तानां त्रयस्त्रिंशत् सर्वोच्चनागरिकसम्मानानां अधिकारी अभवत्। एते सम्मानाः तस्मै देशस्य जनकल्याणाय कृतकार्याणां मान्यतारूपेण प्रदत्ताः सन्ति।

उल्लेखनीयम् अस्ति यत् स्लोवाकियाराष्ट्रस्य राष्ट्रपतिः पीटर पेलेग्रिनी सोमवासरे प्रधानमन्त्रिणे नरेन्द्रमोदिने स्वदेशस्य सर्वोच्चराष्ट्रियसम्मानं द ऑर्डर ऑफ द व्हाइट डबल क्रॉस प्रथमश्रेणी इति पुरस्कारं प्रदत्तवान्।

सम्बितपात्रा अवदत् यत् एतत् भारतस्य एकशतचत्वारिंशत्कोटिनागरिकाणां कृते गौरवस्य विषयः अस्ति। अयं सम्मानः केवलं प्रधानमन्त्रीणः कृते एव न अपितु सम्पूर्णभारतदेशस्य जनानाम् कृते अपि अस्ति। वयं प्रधानमन्त्रीं सर्वान् भारतीयान् च अभिनन्दामः।

तेन पुनः उक्तं यत् एतादृशाः सम्मानाः जनकल्याणकार्याणां स्वीकृत्यर्थं प्रदीयन्ते। प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य नेतृत्वे शासनं गतद्वादशवर्षेभ्यः विकासस्य विश्वासस्य जनकल्याणस्य च मन्त्रेण उत्कृष्टकार्यं कुर्वन् अस्ति।

पात्रा अवदत् यत् स्लोवाकियाराष्ट्रस्य सर्वोच्चनागरिकसम्मानः मोदिने तस्मिन् समये प्रदत्तः यदा सः भारतस्य दीर्घकालपर्यन्तं सेवां कृतवान् निर्वाचितप्रधानमन्त्री इति अभिलेखं स्थापितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani