देशस्य २३ राज्येषु, केन्द्रशासितप्रदेशेषु जनगणनायाः प्रथमं सोपानं पूर्णम्
नवदिल्ली, १६ जूनमासः (हि.स.)। जनगणना-२०२७ अन्तर्गत गृहसूचीकरणम् आवासजनगणना (एच्.एल्.ओ.) च प्रथमं सोपानम् अद्यपर्यन्तं २३ राज्येषु केन्द्रशासितप्रदेशेषु च पूर्णं जातम्। केन्द्रीयगृहमन्त्रालयेन मङ्गलवासरे उक्तं यत् देशस्य विविधेषु भागेषु जनगणनाकार्यं
देशस्य २३ राज्येषु, केन्द्रशासितप्रदेशेषु जनगणनायाः प्रथमं सोपानं पूर्णम्


नवदिल्ली, १६ जूनमासः (हि.स.)। जनगणना-२०२७ अन्तर्गत गृहसूचीकरणम् आवासजनगणना (एच्.एल्.ओ.) च प्रथमं सोपानम् अद्यपर्यन्तं २३ राज्येषु केन्द्रशासितप्रदेशेषु च पूर्णं जातम्। केन्द्रीयगृहमन्त्रालयेन मङ्गलवासरे उक्तं यत् देशस्य विविधेषु भागेषु जनगणनाकार्यं क्रमबद्धरीत्या अग्रे गच्छति।

मन्त्रालयानुसारम् अण्डमान-निकोबार-द्वीपसमूहे, आन्ध्रप्रदेशे, अरुणाचलप्रदेशे, बिहारे, चण्डीगढे, छत्तीसगढे, दादरा-नगरहवेली-दमन-दीवे, देहल्यां, गोवायां, हरियाणायां, झारखण्डे, कर्णाटके, लक्षद्वीपे, मध्यप्रदेशे, महाराष्ट्रे, मेघालये, मिजोरमे, ओडिशायां, पञ्जाबे, राजस्थाने, सिक्किमे, तेलङ्गानायां उत्तराखण्डे च जनगणना-२०२७ इत्यस्य प्रथमं सोपानं पूर्णं जातम्।

महाराष्ट्रे, मेघालये, राजस्थाने, झारखण्डे राष्ट्रियराजधानीक्षेत्रे दिल्लीनगरनिगमक्षेत्रे च १६ मई-मासात् १४ जून-मासपर्यन्तं संचालितं गृहसूचीकरणम् आवासजनगणना च कार्यं सफलतया सम्पन्नम्, पञ्जाबे च इयं प्रक्रिया १३ जून-दिनाङ्के पूर्णा जाता।

एतस्मिन् अन्तरे गुजरात-जम्मूकश्मीर-लद्दाख-पुडुचेरी-उत्तरप्रदेशेषु गृहं गृहं गत्वा गृहसूचीकरणस्य आवासजनगणनायाश्च कार्यं प्रचलति। हिमाचलप्रदेशे मङ्गलवासरतः क्षेत्रकार्याणि आरब्धानि, यानि १५ जुलाईपर्यन्तं चलिष्यन्ति।

केरले नागालैण्डे च स्वगणना (सेल्फ-एन्युमरेशन) सुविधा आरब्धा, या ३० जूनपर्यन्तं उपलब्धा भविष्यति। तदनन्तरम् एतयोः राज्यद्वयोः १ जुलाईतः ३० जुलाईपर्यन्तं गृहं गृहं गत्वा गणनाकार्यं करिष्यते।

गृहमन्त्रालयेन उक्तं यत् जनगणना-२०२७ प्रथमवारं डिजिटलमाध्यमेन क्रियते। अस्य कृते विशिष्टस्य चलदूरभाषसाधनस्य (मोबाइल-एप्लीकेशन) उपयोगः क्रियते, परम्परागतं गृहं गृहं गत्वा गणनाव्यवस्था अपि स्थिरीकृता वर्तते। गृहसूचीकरणस्य आवासजनगणनायाश्च काले आवासीयस्थितिः, परिवाराणां विवरणम्, उपलब्धसुविधाः सम्पत्तिसम्बद्धा सूचना च ३३ प्रश्नयुक्तेन अधिसूचितप्रश्नावलीमाध्यमेन संगृह्यते।

मन्त्रालयेन नागरिकेभ्यः जनगणनाप्रक्रियायां सक्रियं सहभागित्वं गणनाकर्मिभ्यः पूर्णं सहयोगं दातुम् निवेदनं कृतम्। तथा च उक्तं यत् जनगणना-अधिनियम-१९४८ अन्तर्गत संगृहीताः सर्वाः सूचनाः पूर्णतया गोपनीयाः स्थाप्यन्ते, तासां उपयोगः केवलं सांख्यिकीय-विकासात्मक-उद्देश्यार्थमेव क्रियते।

-----------

Hindusthan Samachar / अंशु गुप्ता