Enter your Email Address to subscribe to our newsletters

रायपुरम् 16 जूनमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे महानदीभवने मन्त्रालये विभागानां कार्यकलापानां प्रशासनिकगतिविधीनां च समीक्षा करिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११ वादने मुख्यमन्त्रिनिवासात् प्रस्थानं कृत्वा ११ वादनस्य २५ निमेषेषु महानदीभवनं प्राप्स्यति।
मन्त्रालये मुख्यमन्त्री प्रातः ११ वादनस्य ३० निमेषेभ्यः सायं ५ वादनस्य ३० निमेषपर्यन्तं विभिन्नविभागानां कार्याणां समीक्षा प्रशासनिकबैठकासु तथा अन्येषु कार्यालयीनकार्येषु व्यस्तः भविष्यति।
अस्मिन् अवसरे शासनस्य योजनानां प्रगतिः विभागीयसिद्धयः तथा विकासकार्याणां स्थितिः इत्यादिषु विषये अपि चर्चा भवितुम् संभावना अस्ति।
सम्पूर्णदिनस्य गोष्ठ्यां समीक्षाणां च अनन्तरं मुख्यमन्त्री सायं ५ वादनस्य ३० निमेषे मन्त्रालयात् मुख्यमन्त्रिनिवासाय प्रस्थानं करिष्यति।
Hindusthan Samachar / Dheeraj Maithani