Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जूनमासः (हि.स.)।
काङ्ग्रेसदलेन अयोध्यास्थितस्य श्रीराममन्दिरस्य अर्पितधनस्य कथितानां अनियमिततानां विषये उच्चन्यायालयस्य पदस्थन्यायाधीशेन समयबद्धस्य अन्वेषणस्य करणाय मागः कृतः। दलेन आरोपः कृतः यत् शासनेन देशस्य श्रद्धया सह महत् कपटं कृतम्।
उत्तरप्रदेशकाङ्ग्रेसस्य अध्यक्षः अजय रायः तथा काङ्ग्रेसविधानमण्डलदलस्य नेत्री आराधना मिश्रा मोना मङ्गलवासरे प्रदेशकाङ्ग्रेसमुख्यालये आयोजितायां संयुक्तपत्रकारवार्तायाम् आरोपं कृतवन्तौ यत् श्रीरामजन्मभूमिविषये याः सूचनाः प्रकाशम् आगच्छन्ति, ताः एकस्य विशालस्य संगठितस्य भ्रष्टाचारस्य संकेतं कुर्वन्ति।
अजय रायः आरोपं कृतवान् यत् पूर्वं श्रीरामजन्मभूमौ शिलापूजनस्य नाम्ना बहु धनं संगृहीतम्, यस्य कश्चित् लेखाजोखा न अस्ति। एषा चतुर्दशशतकोटिरूप्यकात् अधिकस्य धनस्य चोरी अस्ति।
तेन भूमिविषये, निर्माणकार्ये तथा चन्दासंग्रहे अनियमिततानाम् आरोपान् कुर्वन् मोदीशासनं प्रति प्रश्नाः उत्थापिताः। तेन उक्तं यत् अस्य गम्भीरविषयस्य सम्बद्धा एसआईटी प्रतिवेदनम् एकसप्ताहस्य अन्तर्गतं आगन्तव्यम्। तथापि तेन उक्तं यत् एसआईटी मध्ये तस्मै अधिकारिणे अन्वेषणकार्यं प्रदत्तम् अस्ति, यस्य विरुद्धं स्वयं महाकुम्भसमये जातायाःसंमर्दस्य विषये अपि अन्वेषणम् प्रचलति।
काङ्ग्रेसविधानमण्डलदलस्य नेत्री आराधना मिश्रा मोना अवदत् यत् अद्य चढावधनस्य अनियमिततायाः विषयः प्रकाशम् आगतः अस्ति, किन्तु यदि पृष्ठभूमिः दृष्टा भवेत् तर्हि भूम्यधिग्रहणसमये अपि अल्पमूल्येन क्रीता भूमिः न्यासाय उच्चमूल्येन विक्रीता आसीत्। मन्दिरस्य समीपस्था सैनिकभूमिः अपि नियमपरिवर्तनं कृत्वा प्रभावशालिभ्यः जनाभ्यः प्रदत्ता आसीत्।
तया निर्माणकार्यस्य विषये प्रश्नाः उत्थापिताः तथा उक्तं यत् मन्दिरनिर्माणसमये प्रथमवृष्ट्यै एव कोटिरूप्यकव्ययेन निर्मिता मार्गः अवसीदत् तथा गर्भगृहे जलस्य स्रवणम् अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani