Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणा विष्णु देव सायेन विभिन्नाः संत-महात्मानः अकुर्वन्सौजन्यमेलनम् , आध्यात्मिक शिक्षायै वृद्धिं कर्तुं निर्णये आभारः
रायपुरम् 16 जूनमासः (हि.स.)।
मुख्यमन्त्रिणा विष्णुदेवसायेन राजधानी रायपुरस्थिते मुख्यमन्त्रिनिवासे अद्य मङ्गलवासरे दक्षिणकौशलपीठाधीश्वरः स्वामी राजीवलोचनदासमहाराजः निर्वाणीअखाडस्य महन्तः सुरेन्द्रदासमहाराजः शदाणीदरबारतः उदयलालः तथा कबीराश्रमस्य सोनपैरीस्थितस्य देवकरसाहबः च सौजन्यभेटं कृतवन्तः। अस्मिन् अवसरे सन्तमहात्मानः छत्तीसगढस्य विद्यालयेषु भारतीयसंस्कृतेः आध्यात्मिकमूल्यानां नैतिकशिक्षायाः च सम्बन्धितानां पारम्परिकश्लोकानां मन्त्राणां च पुनः समावेशस्य निर्णयस्य स्वागतं कृत्वा मुख्यमन्त्रिणे विष्णुदेवसाय महोदयाय आभारं प्रकटितवन्तः।
सन्तैः उक्तं यत् पूर्वकाले विद्यालयेषु विद्यार्थिनः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः इत्यादिभिः मन्त्रैः भारतीयसांस्कृतिकपरम्पराभिः च परिचिताः क्रियन्ते स्म येन बालकेषु संस्काराणां अनुशासनस्य नैतिकमूल्यानां च विकासः भवति स्म। कालक्रमेण एताः परम्पराः शैक्षणिकवातावरणात् शनैः शनैः लुप्ता अभवन् किन्तु अधुना राज्यसर्वकारेण तासां पुनः प्रतिष्ठापनस्य आरम्भः अत्यन्तं स्वागतयोग्यः अस्ति। सन्तसमाजेन उक्तं यत् विद्यालयेषु शान्तिपाठस्य सरस्वतीवन्दनायाः भोजनमन्त्रस्य अन्यासां प्रेरणादायिनीनां वैदिकसांस्कृतिकप्रार्थनानां च समावेशः बालकानां सर्वाङ्गीणविकासे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। अनेन नूतना पीढी भारतीयज्ञानपरम्परया संस्कृत्या नैतिकमूल्यैः च सम्बद्धा भविष्यति।
मुख्यमन्त्री विष्णुदेवसाय महोदयः अवदत् यत् शिक्षा केवलं ज्ञानार्जनस्य माध्यमं नास्ति अपि तु संस्कारचरित्रनिर्माणस्य जीवनमूल्यविकासस्य च आधारः अस्ति। अस्माकं सर्वकारः बालकान् आधुनिकशिक्षया सह भारतीयसंस्कृत्या परम्पराभिः आध्यात्मिकमूल्यैः च संयोजयितुं प्रतिबद्धः अस्ति। विद्यालयेषु शान्तिपाठस्य सरस्वतीवन्दनायाः भोजनमन्त्रस्य अन्यासां प्रेरणादायिनीप्रार्थनानां च समावेशेन विद्यार्थिषु अनुशासनस्य सकारात्मकचिन्तनस्य आत्मविश्वासस्य सांस्कृतिकचेतनायाः च विकासः भविष्यति। एषा पहलः नूतनां पीढीं स्वमूलैः संयोजयन्ती संस्कारितान् जागरूकान् उत्तरदायिनः नागरिकान् निर्मातुं दिशि महत्त्वपूर्णः पदक्षेपः अस्ति।
सन्तमहात्मानः मुख्यमन्त्रिणे विष्णुदेवसायाय अस्य उपक्रमस्य कृते साधुवादं दत्त्वा आशीर्वादं प्रदत्तवन्तः तथा उक्तवन्तः यत् एषः निर्णयः प्रदेशस्य सांस्कृतिकपरिचयस्य आध्यात्मिकविरासतायाः च सुदृढीकरणस्य दिशि महत्त्वपूर्णः पदक्षेपः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani