अधुना लघुग्रामेषु अपि बिना अनुमत्या न विक्रेतुं शक्यते कफ सिरप, स्वास्थ्य मंत्रालयेन परिवर्तिताः नियमाः
नव दिल्ली, 16 जूनमासः (हि.स)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन मङ्गलवासरे औषधविक्रयसम्बद्धेषु नियमेषु महत्त्वपूर्णः संशोधनः कृतः। मन्त्रालयेन ड्रग्स रूल्स १९४५ इत्यस्मिन् परिवर्तनं कृत्वा लघुग्रामेषु कफसिरपस्य विक्रये प्रदत्ता छूटिः प्रत
कफ सीरप की फोटो


नव दिल्ली, 16 जूनमासः (हि.स)।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्रालयेन मङ्गलवासरे औषधविक्रयसम्बद्धेषु नियमेषु महत्त्वपूर्णः संशोधनः कृतः। मन्त्रालयेन ड्रग्स रूल्स १९४५ इत्यस्मिन् परिवर्तनं कृत्वा लघुग्रामेषु कफसिरपस्य विक्रये प्रदत्ता छूटिः प्रत्याहृता। अधुना लघुग्रामेष्वपि अनुज्ञापत्रं विना कफसिरपस्य विक्रयः न कर्तुं शक्यते।

मन्त्रालयेन मङ्गलवासरे प्रकाशितायां अधिसूचनायां उक्तं यत् पूर्वं सहस्रात् न्यूनजनसङ्ख्यायुक्तेषु ग्रामेषु कफसिरपस्य विक्रयाय केषाञ्चन अनुज्ञापत्रसम्बद्धप्रावधानानां छूटिः आसीत्। अधुना नियमेषु संशोधनं कृत्वा सम्बन्धितप्रविष्टेः सिरप इति शब्दः अपसारितः अस्ति। अस्य परिवर्तनस्य अनन्तरं लघुग्रामेषु कफसिरपस्य विक्रयः वितरणं च केवलं विधिवत् अनुज्ञापत्रप्राप्तैः औषधालयैः अथवा फार्मेसीभिः माध्यमेन एव कर्तुं शक्यते। अनुज्ञापत्रं विना कफसिरपस्य विक्रयः अधुना नियमानुसारं मान्यः न भविष्यति।

स्वास्थ्यपरिवारकल्याणमन्त्रालयेन उक्तं यत् एषः उपायः सिरपाधारितऔषधानां विक्रयवितरणयोः नियामकनिगरानीयां सुदृढीकरणाय तथा सार्वजनिकस्वास्थ्यसुरक्षामानकानां उन्नयनाय कृतः अस्ति। मन्त्रालयेन कफसिरपस्य निर्माणवितरणविक्रयसम्बद्धान् सर्वान् निर्मातॄन् वितरकान् च खुद्राविक्रेतॄन् च ड्रग्स एण्ड कॉस्मेटिक्स एक्ट १९४० तथा ड्रग्स रूल्स १९४५ इत्येतयोः प्रावधानानां कठोरतया पालनं कर्तुं परामर्शः दत्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani