सतीश उपाध्यायो दिल्ली जलपरिषदः उपाध्यक्षस्य पदभारं संभालितवान्, नूतनाः सदस्याःअगृह्णन् शपथवचनम्
नवदिल्ली, 16 जूनमासः (हि.स.)। भारतीयजनतापार्टीदलस्य विधायकः सतीश उपाध्यायः मङ्गलवासरे दिल्लीजलमण्डलस्य उपाध्यक्षरूपेण पदभारं स्वीकृतवान्। अपरतः विधायकौ अजय महावरः, मनोज शौकीनः तथा दिल्लीछावनीमण्डलस्य सदस्यः राजेश गोयलः दिल्लीजलमण्डलस्य सदस्यरू
सांसद बांसुरी स्वराज के साथ सतीश उपाध्याय दिल्ली जल बोर्ड के उपाध्यक्ष के पदभार ग्रहण करने के दौरान।


नवदिल्ली, 16 जूनमासः (हि.स.)।

भारतीयजनतापार्टीदलस्य विधायकः सतीश उपाध्यायः मङ्गलवासरे दिल्लीजलमण्डलस्य उपाध्यक्षरूपेण पदभारं स्वीकृतवान्। अपरतः विधायकौ अजय महावरः, मनोज शौकीनः तथा दिल्लीछावनीमण्डलस्य सदस्यः राजेश गोयलः दिल्लीजलमण्डलस्य सदस्यरूपेण शपथं गृहीतवन्तः।

अस्मिन् अवसरे भारतीयजनतापार्टीसांसदा बांसुरी स्वराज, दिल्लीजलमण्डलस्य मुख्यकार्यकारी अधिकारी डॉ. सज्जन सिंह यादवः, सदस्यः वित्तविभागस्य अमन गुप्तः तथा अन्ये बहवः गणमान्याः उपस्थिताः आसन्। सर्वैः उपाध्यक्षः सतीश उपाध्यायः अन्ये सदस्याः च पुष्पगुच्छैः सम्मानिताः तथा शुभकामनाः प्रदत्ताः।

अस्मिन् अवसरे वक्तृभिः विश्वासः व्यक्तः यत् नवीनस्य नेतृत्वस्य मार्गदर्शनेन दिल्लीजलमण्डलं राजधानीक्षेत्रे जलापूर्तिं, मलजलव्यवस्थापनं तथा नागरिकसेवानां अधिकप्रभावकारी, पारदर्शी तथा जनहितकारीकरणस्य दिशि कार्यं करिष्यति।

उल्लेखनीयम् अस्ति यत् दिल्लीजलमण्डलस्य स्थापना ३० मार्च १९९८ दिनाङ्के कृता आसीत्, यत् राष्ट्रियराजधानीक्षेत्रे जलापूर्तेः, अपशिष्टजलस्य तथा मलजलस्य संग्रहणस्य, शोधनस्य निपटानस्य च उत्तरदायित्वं वहति।

अस्मात् पूर्वं एतानि कार्याणि दिल्लीजलापूर्ति तथा मलजलनिपटनोपक्रमस्य अधीनानि आसन्।

-----------

Hindusthan Samachar / Dheeraj Maithani