Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 16 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् धैर्येण, विवेकेन तथा दूरदर्शितया प्रेरितैः कार्यैः एव सुखसमृद्धेः द्वाराणि उद्घाट्यन्ते। तेन उक्तं यत् प्रत्येकस्य निर्णयस्य कृते गहनबोधनम् आवश्यकम् अस्ति, यतः सफलता तेषु निर्णयेषु आश्रिता भवति ये सम्यक् विचारपूर्वकं गृह्यन्ते।
प्रधानमन्त्री महोदयः मङ्गलवासरे एक्स-माध्यमे संस्कृतसुभाषितम् अवदत्—
“सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् किमपि कार्यं विना विचारं न आरभेत, यतः अविवेकेन कृतानि कार्याणि महतीः आपदः आह्वयन्ति। विपरीततया सफलता समृद्धिश्च तस्य जनस्य वरणं कुरुतः यः सर्वाणि कार्याणि सम्यक् विचार्य करोति।
प्रधानमन्त्री पुनः अवदत् यत् धैर्येण, विवेकेन च दूरदर्शितया कृतैः कार्यैः एव सुखसमृद्धेः मार्गः प्रशस्तः भवति। अतः प्रत्येकस्मिन् निर्णये पूर्णा प्रज्ञा अपेक्षिता, यतः सम्यक् विचारपूर्वकं कृतः पदक्षेपः एव सफलतायाः आधारः भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani